Vedyatra वेदयात्रा
Search

Atharvaveda · Sūkta 15.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

15.15.1

तस्य व्रात्यस्य ॥ १५.१५.१ ॥

Of that Vrātya.

15.15.2

सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥ १५.१५.२ ॥

Seven breaths, seven downward breaths, seven pervasive breaths.

15.15.3

योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥ १५.१५.३ ॥

That first breath of his, upward-moving, is by name this Agni.

15.15.4

योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥ १५.१५.४ ॥

That second breath of his, mature, is by name that Āditya, the sun.

15.15.5

योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः ॥ १५.१५.५ ॥

That third breath of his, drawn forth, is by name that Moon.

15.15.6

योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः ॥ १५.१५.६ ॥

That fourth breath of his, all-pervading, is by name this purifying wind.

15.15.7

योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः ॥ १५.१५.७ ॥

The fifth breath of this one, named the womb—these are those waters.

15.15.8

योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥ १५.१५.८ ॥

The sixth breath of this one, named the dear—these are those cattle.

15.15.9

योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥ १५.१५.९ ॥

The seventh breath of this one, named the boundless—these are these creatures.