阿闼婆吠陀 · 颂诗(Sūkta) 2.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.15.1
यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥ २.१५.१ ॥
如天与地不惧怕、不衰亡,我的气息啊(prāṇa),你也不要害怕。
2.15.2
यथाहश्च रात्री च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥ २.१५.२ ॥
如白昼与黑夜不惧怕、不衰亡,我的气息啊(prāṇa),你也不要害怕。
2.15.3
यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥ २.१५.३ ॥
如太阳与月亮不惧怕、不衰亡,我的气息啊(prāṇa),你也不要害怕。
2.15.4
यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥ २.१५.४ ॥
如梵(brahman)与刹帝利之力不惧怕、不衰亡,我的气息啊(prāṇa),你也不要害怕。
2.15.5
यथा सत्यं चानृतं च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥ २.१५.५ ॥
如真实与虚妄不惧怕、不衰亡,我的气息啊(prāṇa),你也不要害怕。
2.15.6
यथा भूतं च भव्यं च न बिभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेः ॥ २.१५.६ ॥
如过去与未来不惧怕、不衰亡,我的气息啊(prāṇa),你也不要害怕。