Atharvaveda · Sūkta 19.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.23.1
आथर्वणानां चतुर्ऋचेभ्यः स्वाहा ॥ १९.२३.१ ॥
Svāhā ! Aux hymnes de quatre strophes des Ātharvaṇa.
19.23.2
पञ्चर्चेभ्यः स्वाहा ॥ १९.२३.२ ॥
Svāhā ! Aux hymnes de cinq strophes.
19.23.3
षळृचेभ्यः स्वाहा ॥ १९.२३.३ ॥
Svāhā ! Aux hymnes de six strophes.
19.23.4
सप्तर्चेभ्यः स्वाहा ॥ १९.२३.४ ॥
Svāhā ! Aux hymnes de sept strophes.
19.23.5
अष्टर्चेभ्यः स्वाहा ॥ १९.२३.५ ॥
Svāhā ! Aux hymnes de huit strophes.
19.23.6
नवर्चेभ्यः स्वाहा ॥ १९.२३.६ ॥
Svāhā ! Aux hymnes de neuf strophes.
19.23.7
दशर्चेभ्यः स्वाहा ॥ १९.२३.७ ॥
Pour ceux de dix ṛcs — svāhā !
19.23.8
एकादशर्चेभ्यः स्वाहा ॥ १९.२३.८ ॥
Pour ceux de onze ṛcs — svāhā !
19.23.9
द्वादशर्चेभ्यः स्वाहा ॥ १९.२३.९ ॥
Pour ceux de douze ṛcs — svāhā !
19.23.10
त्रयोदशर्चेभ्यः स्वाहा ॥ १९.२३.१० ॥
Pour ceux de treize ṛcs — svāhā !
19.23.11
चतुर्दशर्चेभ्यः स्वाहा ॥ १९.२३.११ ॥
Pour ceux de quatorze ṛcs — svāhā !
19.23.12
पञ्चदशर्चेभ्यः स्वाहा ॥ १९.२३.१२ ॥
Pour ceux de quinze ṛcs — svāhā !
19.23.13
षोडशर्चेभ्यः स्वाहा ॥ १९.२३.१३ ॥
Aux seize strophes, svāhā.
19.23.14
सप्तदशर्चेभ्यः स्वाहा ॥ १९.२३.१४ ॥
Aux dix-sept strophes, svāhā.
19.23.15
अष्टादशर्चेभ्यः स्वाहा ॥ १९.२३.१५ ॥
Aux dix-huit strophes, svāhā.
19.23.16
एकोनविंशतिः स्वाहा ॥ १९.२३.१६ ॥
À dix-neuf, svāhā.
19.23.17
विंशतिः स्वाहा ॥ १९.२३.१७ ॥
À vingt, svāhā.
19.23.18
महत्काण्डाय स्वाहा ॥ १९.२३.१८ ॥
Au grand kāṇḍa, svāhā.
19.23.19
तृचेभ्यः स्वाहा ॥ १९.२३.१९ ॥
Svāhā aux hymnes de trois strophes !
19.23.20
एकर्चेभ्यः स्वाहा ॥ १९.२३.२० ॥
Svāhā aux hymnes d'une seule strophe !
19.23.21
क्षुद्रेभ्यः स्वाहा ॥ १९.२३.२१ ॥
Svāhā aux petits hymnes !
19.23.22
एकानृचेभ्यः स्वाहा ॥ १९.२३.२२ ॥
Svāhā aux hymnes d'un verset et demi !
19.23.23
रोहितेभ्यः स्वाहा ॥ १९.२३.२३ ॥
Svāhā aux rougeoyants !
19.23.24
सूर्याभ्यां स्वाहा ॥ १९.२३.२४ ॥
Svāhā aux deux soleils !
19.23.25
व्रात्याभ्यां स्वाहा ॥ १९.२३.२५ ॥
Svāhā aux deux vrātyas !
19.23.26
प्राजापत्याभ्यां स्वाहा ॥ १९.२३.२६ ॥
Svāhā aux deux descendants de Prajāpati !
19.23.27
विषासह्यै स्वाहा ॥ १९.२३.२७ ॥
Svāhā à Viṣāsahyā, celle qui triomphe du poison !
19.23.28
मङ्गलिकेभ्यः स्वाहा ॥ १९.२३.२८ ॥
Svāhā aux porteurs de bonheur !
19.23.29
ब्रह्मणे स्वाहा ॥ १९.२३.२९ ॥
Svāhā à Brahman !
19.23.30
ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।
भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥ १९.२३.३० ॥
Brahman est le premier ; en lui se rassemblèrent toutes les forces. Brahman étendit d'abord le ciel au plus haut. Parmi les êtres, Brahmā naquit le premier. Qui peut rivaliser avec ce Brahman ?