Vedyatra वेदयात्रा
検索

ウパニシャッド · Bṛhadāraṇyaka 5.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

Bṛhadāraṇyaka 5.10.1

(सर्वासामुपासनानां गतेः फलस्य च विधायकं ब्राह्मणम् )
यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति ।
तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स आदित्यमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा लम्बरस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स चन्द्रमसमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा दुन्दुभेः खम् ।
तेन स ऊर्ध्व आक्रमते ।
स लोकमागच्छत्यशोकमहिमम् ।
तस्मिन् वसति शाश्वतीः समाः ॥ ५.१०.१ ॥

人がこの世界から去るとき、彼は風に至る。彼のために風はそこで戦車の車輪の穴のように開く。それを通って彼は上へ昇る。彼は太陽に至る。彼のために太陽はそこでランバラの穴のように開く。それを通って彼は上へ昇る。彼は月に至る。彼のために月はそこで太鼓の穴のように開く。それを通って彼は上へ昇る。彼は悲しみなき偉大さの世界に至る。そこで彼は永遠の年月を住む。