Vedyatra वेदयात्रा
Search

Atharvaveda · Sūkta 2.19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

2.19.1

अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ २.१९.१ ॥

O Agni, with that heat of yours, burn him who hates us, whom we hate.

2.19.2

अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ २.१९.२ ॥

O Agni, with that seizing power of yours, seize him who hates us, whom we hate.

2.19.3

अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ २.१९.३ ॥

O Agni, with that flame of yours, blaze forth against him who hates us, whom we hate.

2.19.4

अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ २.१९.४ ॥

O Agni, with that blaze of yours, glow and burn against him who hates us, whom we hate.

2.19.5

अग्ने यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ २.१९.५ ॥

O Agni, with that splendour of yours, make him without splendour who hates us, whom we hate.