奥义书 · Chāndogya 7.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 7.6.1
ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव द्यौर्ध्यायन्तीवापो ध्यायन्तीव पर्वता देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादाँशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादाँशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ ७.६.१ ॥
禅定确实比心更大。如同大地在禅定,如同虚空在禅定,如同天空在禅定,如同众水在禅定,如同群山在禅定,神与人也在禅定。因此,在人间获得伟大的人,正是由于得到了禅定的分部才如此;而那些渺小、好争、搬弄是非、诽谤他人的人,也同样如禅定的分部。应当修习禅定。
Chāndogya 7.6.2
स यो ध्यानं ब्रह्मेत्युपास्ते यावद्ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद्भूय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.६.२ ॥
凡以禅定为梵而修习者,在禅定所至之处,便可随意游行。“尊者,禅定之上是否还有更高者?”“有,禅定之上还有更高者。”“那么愿尊者告诉我。”