阿闼婆吠陀 · 颂诗(Sūkta) 19.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.43.1
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे ।
अग्नये स्वाहा ॥ १९.४३.१ ॥
愿阿耆尼将我引向梵智者与奉献和苦行同行之处;愿阿耆尼在我心中安置智慧。向阿耆尼致敬,娑婆诃!
19.43.2
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥ १९.४३.२ ॥
愿风神将我引向梵智者与奉献和苦行同行之处;愿风神在我身中安置生气。向风神致敬,娑婆诃!
19.43.3
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे ।
सूर्याय स्वाहा ॥ १९.४३.३ ॥
愿太阳神将我引向梵智者与奉献和苦行同行之处;愿太阳神在我心中安置明眼。向太阳神致敬,娑婆诃!
19.43.4
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
चन्द्रो मा तत्र नयतु मनश्चन्द्रो दधातु मे ।
चन्द्राय स्वाहा ॥ १९.४३.४ ॥
愿月神将我引向梵智者与奉献和苦行同行之处;愿月神在我心中安置心意。向月神致敬,娑婆诃!
19.43.5
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
सोमो मा तत्र नयतु पयः सोमो दधातु मे ।
सोमाय स्वाहा ॥ १९.४३.५ ॥
愿苏摩将我引向梵智者与奉献和苦行同行之处;愿苏摩在我身中安置乳汁与滋养。向苏摩致敬,娑婆诃!
19.43.6
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे ।
इन्द्राय स्वाहा ॥ १९.४३.६ ॥
愿因陀罗将我引向梵智者与奉献和苦行同行之处;愿因陀罗在我身中安置力量。向因陀罗致敬,娑婆诃!
19.43.7
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
आपो मा तत्र नयत्वमृतं मोप तिष्ठतु ।
अद्भ्यः स्वाहा ॥ १९.४३.७ ॥
凡知梵者与奉行灌顶、苦行者所往之处,愿众水引我前往;愿不死常驻于我身旁。向众水献上斯瓦哈!
19.43.8
यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे ।
ब्रह्मणे स्वाहा ॥ १९.४३.८ ॥
凡知梵者与奉行灌顶、苦行者所往之处,愿梵天引我前往;愿梵在我之中安立梵。向梵献上斯瓦哈!