Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 8.79

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

8.79.1

समागमे पाण्डवसृञ्जयानां ।
महाभये मामकानामगाधे।
धनञ्जये तात रणाय याते ।
कर्णेन तद्युद्वमथोऽत्र कीदृक् ॥ ८.७९.१ ॥

パーンドゥの子らとスリンジャヤ族の会戦、我が民にとって大いなる恐怖の底知れぬ海において、愛しき者よ、ダナンジャヤが戦いに赴き、カルナと戦ったとき、その戦いはいかなるものであったか。

8.79.2

तेषामनीकानि महाध्वजानि ।
रणे समृद्धानि सुसङ्गतानि।
भेरीनिरादोन्मुखराण्यंगर्ज… ।
न्मेघा इव प्रावृषि मारुतास्ताः ॥ ८.७९.२ ॥

彼らの軍勢は大いなる旗を掲げ、戦いにおいて盛んで整然と並び、太鼓の響きに満ち、雨季の雲と風のように轟いていた。

8.79.3

महागजाभ्राकुलमस्त्रतोयं ।
वादित्रनेमीतलशब्दवच्च।
हिरण्यचित्रायुधविद्युतं च ।
शरासिनाराचमहास्त्रधारम् ॥ ८.७९.३ ॥

その戦いは雲のような大象に覆われ、武器がその水であった。太鼓の縁の響きのように鳴り、黄金の彩り豊かな武器は稲妻となり、矢、剣、ナーラーチャの槍、大いなる兵器の奔流が流れていた。

8.79.4

तद्भीमवेगं रुधिरौघवाहि ।
खङ्गाकुलं क्षत्रियजीवघाति।
अनार्तवं क्रूरमनिष्टवर्षं ।
बभूव संरम्भकरं प्रजानाम् ॥ ८.७९.४ ॥

その恐ろしい勢いの戦いは、血の奔流を運び、剣に満ち、戦士たちの命を奪い、季節外れに、残酷に、凶事の雨を降らせ、民衆に動揺を引き起こすものとなった。

8.79.5

एकं रथं सम्परिवार्य मृत्युं ।
नयन्त्यनेके च रथाः समेताः।
एकस्तथैकं रथिनं रथाग्र्यां… ।
स्तथा रथश्चापि रथाननेकान् ॥ ८.७९.५ ॥

一台の戦車を取り囲んで、多くの戦車が死を運んでいくかのようであった。同様に、一人の戦車兵、戦車兵の中の第一人者を、また一台の戦車が多くの戦車兵を取り囲んだ。

8.79.6

रथं ससूतं सहयं च कञ्चि… ।
त्कश्चिद्रती मृत्युवशं निनाय।
निनाय चाप्येकगजेन कश्चि… ।
द्रथान्बहून्मृत्युवशे तथाश्वान् ॥ ८.७९.६ ॥

ある者は御者と馬を伴う戦車とその戦士を死の支配へ送った。別の者は一頭の象とともに送った。また多くの戦車と馬を死の支配下に置いた。

8.79.7

रथान्ससूतान्सहयान्गजांश्च ।
सर्वानरीन्मृत्युवशं शरौघैः।
निन्ये हयांश्चैव तथा ससादी… ।
न्पदातिसङ्घांश्च तथैव पार्थः ॥ ८.७९.७ ॥

プリター の子は矢の奔流で、御者ともに戦車、馬、象、そして敵すべてを死の支配へ送った。同様に馬、騎兵、歩兵の群れも送った。

8.79.8

कृपः शिखण्डी च रणे समेतौ ।
दुर्योधनं सात्यकिरध्यगच्छत्।
श्रुतश्रवा द्रोणपुत्रेण सार्धं ।
युधामन्युश्चित्रसेनेन सार्धम् ॥ ८.७९.८ ॥

クリパとシカンディンが戦場で出会った。サーティヤキはドゥルヨーダナと対峙した。シュルタシュラヴァスはドローナの子と、ユダーマニユはチトラセーナと戦った。

8.79.9

कर्णस्य पुत्रं तु रथी सुषेणं ।
समागतं सृञ्जयश्चोत्तमौजाः।
गान्धारराजं सहदेवोऽक्षधूर्तं ।
महर्षभं सिंह इवाभ्यधावत् ॥ ८.७९.९ ॥

カルナの息子の戦車兵スシェーナが進み出ると、スリンジャヤのウッタマゥジャスが相対した。サハデーヴァは獅子のように、賭博で不正を働いたガーンダーラ王に襲いかかった。

8.79.10

शतानीको नाकुलिः कर्णपुत्रं ।
युवा युवानं वृषसेनं शरौघैः।
समार्पयत्कर्णपुत्रश्च शूरः ।
पाञ्चालेयं शरवर्षैरनेकैः ॥ ८.७९.१० ॥

ナクラの息子シャターニーカは、若いカルナの息子ヴリシャセーナを矢の奔流で打った。勇敢なカルナの息子はパーンチャーラの王子に、多くの矢の雨を降らせた。

8.79.11

रथर्षभः कृतवर्माणभार्च्छ… ।
न्माद्रीपुत्रो नकुलश्चित्रयोधी।
पाञ्चालानामधिपो याज्ञसेनिः ।
सेनापतिः कर्णमार्च्छत्ससैन्यम् ॥ ८.७९.११ ॥

戦車の勇者……はクリタヴァルマンを攻撃した。マードリーの子ナクラ、驚異の戦士、パーンチャーラの主、ヤジュニャセーニ、将軍が軍勢とともにカルナを攻撃した。

8.79.12

दुःशासनो भारत भारतं तु ।
व्यात्ताननं क्रूरमिवान्तकाभम्।
भीमं रणे शस्त्रभृतां वरिष्ठं ।
भीमं समार्च्छत्तमसह्यवेगम् ॥ ८.७९.१२ ॥

ドゥフシャーサナよ、バーラタよ、バーラタを攻撃した……口を開けた、凶暴で死神のような、戦場で武器を持つ者の中で最も優れたビーマ、耐え難い勢いの彼を。

8.79.13

कर्णात्मजं तत्र जघान वीर… ।
स्तथाच्छिनच्चोत्तमौजाः प्रसह्य।
तस्योत्तमाङ्गं निपपात भूमौ ।
निनादयद्गां निनदेन खं च ॥ ८.७९.१३ ॥

そこで英雄はカルナの息子を討った……ウッタマウジャスも同じく力づくで切り落とした。その頭は地に落ち、その轟きで大地と空を響かせた。

8.79.14

सुषेणशीर्षं पतितं पृथिव्यां ।
विलोक्य कर्णोऽथ तदार्तरूपः।
क्रोधाद्धयांस्तस्य रथं ध्वजं च ।
बाणैः सुधारैर्निशितैरकृन्तत् ॥ ८.७९.१४ ॥

スシェーナの首が地に落ちているのを見て、カルナは苦悶のうちに怒り、鋭く研がれた矢で彼の馬と戦車と旗を断ち切った。

8.79.15

स तूत्तमौजा निशितैः पृषत्कै… ।
र्विव्याध खङ्गेन च भास्वरेण।
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा ।
शिखण्डिवाहं स ततोऽध्यरोहत् ॥ ८.७९.१५ ॥

ウッタマウジャスは鋭い矢で……輝く剣で打ち、クリパの後衛を倒したのち、シカンディンの車に登った。

8.79.16

कृपं तु दृष्ट्वा विरथं रथस्थो ।
नैच्छच्छरैस्ताडयितुं शिखण्डी।
तं द्रौणिरावार्य रथं कृपस्य ।
समुज्जहे पङ्कगतां यथा गाम् ॥ ८.७९.१६ ॥

Kṛpa が戦車を失っているのを見て、戦車の上に立つ Śikhaṇḍin は彼を矢で射ようとしなかった。そこで Droṇa の息子は Kṛpa の戦車を覆い、泥にはまった牛を起こすように彼を引き上げた。

8.79.17

हिरण्यवर्मा निशितैः पृषत्कै… ।
स्तवात्मजानामनिलात्मजो वै।
अतापयत्सैन्यमतीव भीमः ।
काले शुचौ मध्यगतो यथाऽर्कः ॥ ८.७९.१७ ॥

金の鎧をまとった風の子ビーマは鋭い矢で……あなたの息子たちの軍勢を大いに焼いた。暑い季節の正午の太陽が焼くように。