ウパニシャッド · Chāndogya 7.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 7.9.1
अन्नं वाव बलाद्भूयस्तस्माद्यद्यपि दश रात्रीर्नाश्नीयाद्यद्यु ह जीवेदथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवत्यथान्नस्यायै द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ॥ ७.९.१ ॥
実に食物(anna)は力より大きい。ゆえに、たとえ十夜食べずとも、生きていれば見る者、聞く者、思惟する者、理解する者、行う者、知る者であり続ける。しかし食物の養いによって、見る者、聞く者、思惟する者、理解する者、行う者、知る者となる。食物を崇拝せよ。
Chāndogya 7.9.2
स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान्पानवतोऽभिसिध्यति यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नाद्भूय इत्यन्नाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.९.२ ॥
食物をブラフマンとして念想する者は、食物を持つ諸世界を得て、食物の及ぶ限り意のままに行き来する自由を得る。(ナーラダ:)尊き方よ、食物よりも大いなるものはありますか。(サナトクマーラ:)食物よりも大いなるものがある。尊き方がそれを私に語られますように。