Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.36.1

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ ६.३६.१ ॥

阿周那说:那些常常专注、如此崇拜你的信徒,以及崇拜不灭、未显现者的人,其中谁是最精通瑜伽的人?

6.36.2

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ ६.३६.२ ॥

世尊说:那些将心专注于我,永远专一,怀着至上信心崇拜我的人,在我看来是最专一的人。

6.36.3

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ६.३६.३ ॥

而那些崇拜不灭、不可言说、未显现、遍在、不可思议、常住、不动、恒定者的人——

6.36.4

संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताःक ॥ ६.३६.४ ॥

完全制伏诸根,处处心平等,喜乐于一切众生的福利,他们确实得到我。

6.36.5

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गदिर्दुःखं देहवद्भिरवाप्यते ॥ ६.३६.५ ॥

心执著于未显现者的人,困苦更大;因为对于有形体的人来说,未显现的归宿是以痛苦得到的。

6.36.6

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६.३६.६ ॥

而那些把一切行为都托付于我,以我为至上,以无二之瑜伽冥想我而崇拜我的人——

6.36.7

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् ॥ ६.३६.७ ॥

阿周那啊,对于心专注于我的人,我很快便会将他们从死亡与轮回的大海中救度出来。

6.36.8

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न शंशकयः ॥ ६.३६.८ ॥

将你的心念专注于我,将你的智慧安定于我;那时你将只住于我之中,此事毫无疑问。

6.36.9

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाऽऽप्तुं धनंजय ॥ ६.३६.९ ॥

若你不能将心念稳定地安住于我,那么,财富征服者啊,就以修习之瑜伽来求得我吧。

6.36.10

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्य्यसि ॥ ६.३६.१० ॥

若你连修习也不能胜任,那就专注于为我而行事;为我而行动,你仍将获得圆满成就。

6.36.11

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ६.३६.११ ॥

若你连此也不能做到,那就依托我的瑜伽,自制其心,舍弃一切行为的果报。

6.36.12

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ ६.३६.१२ ॥

知识胜于修习,禅定胜于知识,舍弃行为之果胜于禅定;由舍弃即刻生出寂静。

6.36.13

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहंकारः समदुःखसुखः क्षमी ॥ ६.३६.१३ ॥

不憎恨一切众生,友善慈悲,无我所执与我慢,苦乐等视,且能忍耐,

6.36.14

संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मे भक्तः स मे प्रियः ॥ ६.३६.१४ ॥

常知满足、自制、决心坚定的瑜伽行者,其心与智皆奉献于我——这样的我的信徒便是我所爱的。

6.36.15

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ ६.३६.१५ ॥

世间不因其而惊扰,他也不因世间而惊扰,脱离喜悦、烦恼、恐惧与焦躁的人,他便是我所爱的。

6.36.16

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ ६.३६.१६ ॥

无所期待、清净、精明、超然、离苦,舍弃一切事业的我的信徒,便是我所爱的。

6.36.17

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ ६.३६.१७ ॥

不喜不恶,不忧不求,舍弃善与恶,充满虔信的人,便是我所爱的。

6.36.18

समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ ६.३६.१८ ॥

对敌与友一视同仁,对荣与辱亦复如是,寒暑、苦乐平等,离诸执著的人,

6.36.19

तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केन चित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ ६.३६.१९ ॥

对毁谤与赞美一视同仁、沉默寡言、随遇而安、无家可归、心志坚定并且虔敬于我的人,是我所喜爱的人。

6.36.20

ये तु धर्मामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ ६.३६.२० ॥

而那些依照所说,虔信地修习此法甘露、以我为至上、奉我为信徒的人,他们是我极为喜爱的。