Vedyatra वेदयात्रा
検索

ウパニシャッド · Chāndogya 7.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

Chāndogya 7.3.1

मनो वाव वाचो भूयो यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्राँश्च पशूँश्चेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ ७.३.१ ॥

意は言葉より大きい。二つのハリタキの実、二つのナツメの実、あるいは二つのサイコロを手に握るように、意は言葉と名を握る。意によって「マントラを学ぼう」と思うとき学び、「祭儀を行おう」と思うとき行い、「息子と家畜を望もう」と思うとき望み、「この世とかの世を望もう」と思うとき望む。意こそ我(ātman)であり、意こそ世界であり、意こそブラフマンである。意を念想せよ。

Chāndogya 7.3.2

स यो मनो ब्रह्मेत्युपास्ते यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.३.२ ॥

意をブラフマンとして念想する者は、意が及ぶところまで意のままに行くことができる。尊者よ、意より大きなものはありますか。(彼は言った)意より大きなものがある。尊者がそれを私に説いてください。