摩诃婆罗多 · 章 13.171
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.171.1
सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम् ।
यच्चाप्यसंशयं लोके तन्मे त्वं वक्तुमर्हसि ॥ १३.१७१.१ ॥
请告诉我,在一切斋戒中,何者是最高的善,结果最为丰厚,以及世间何者无疑是最好的。
13.171.2
शृणु राजन्यथा गीतं स्वयमेव स्वयंभुवा ।
यत्कृत्वा निर्वृतो भूयात्पुरुषो नात्र संशयः ॥ १३.१७१.२ ॥
国王啊,请听。自生者(梵天)亲自所唱的就是:行此者,人必得安宁,此无疑问。
13.171.3
द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम् ।
अर्च्याश्वमेधं प्राप्नोति दुष्कृतं चास्य नश्यति ॥ १३.१७१.३ ॥
在末伽希尔沙月的十二日,若一昼夜礼拜克沙瓦,便可获得马祭的果报,其恶行也被消除。
13.171.4
तथैव पौषमासे तु पूज्यो नारायणेति च ।
वाजपेयमवाप्नोति सिद्धिं च परमां व्रजेत् ॥ १३.१७१.४ ॥
同样,在布沙月,若以“那罗延”之名礼拜,便可获得婆阇跋耶祭,并达到至上成就。
13.171.5
अहोरात्रेण द्वादश्यां माघमासे तु माघवम् ।
राजसूयमवाप्नोति कुलं चैव समुद्धरेत् ॥ १३.१७१.५ ॥
在摩伽月的十二日,若一昼夜礼拜摩陀婆,便可获得王祭,并拯救其家族。
13.171.6
तथैव फाल्गुने मासि गोविन्देति च पूजयन् ।
अतिरात्रमवाप्नोति सोमलोकं च गच्छति ॥ १३.१७१.६ ॥
同样,在弗尔古那月,若以“牛主”之名礼拜,便可获得阿提罗陀罗祭,并往生月神之界。
13.171.7
अहोरात्रेण द्वादश्यां चैत्रे विष्णुरिति स्मरन् ।
पौण्डरीकमवाप्नोति देवलोकं च गच्छति ॥ १३.१७१.७ ॥
在吠舍佉月的第十二日,日夜忆念毗湿奴,便可获得白莲之福,前往诸天之界。
13.171.8
वैशाखमासे द्वादश्यां पूजयन्मधुसूदनम् ।
अग्निष्टोममवाप्नोति सोमलोकं च गच्छति ॥ १३.१७१.८ ॥
在吠舍佉月的第十二日,敬拜摩图苏登那,便可获得火祭(阿格尼什托摩)之果,前往月亮之界。
13.171.9
अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम् ।
गवां मेधमवाप्नोति अप्सरोभिश्च मोदते ॥ १३.१७१.९ ॥
在阇铄吒月的第十二日,日夜敬拜特里维克拉玛,便可获得献牛之福,并与天女同乐。
13.171.10
आषाढे मासि द्वादश्यां वामनेति च पूजयन् ।
नरमेधमवाप्नोति पुण्यं च लभते महत् ॥ १३.१७१.१० ॥
在阿沙荼月的第十二日,敬拜侏儒化身的毗湿奴,便可获得人祭之果,并得大功德。
13.171.11
अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम् ।
पञ्चयज्ञानवाप्नोति विमानस्थश्च मोदते ॥ १३.१७१.११ ॥
在室罗伐拏月的第十二日,日夜敬拜室利驮罗,便可获得五大祭之果,并乘天车欢喜。
13.171.12
तथा भाद्रपदे मासि हृषीकेशेति पूजयन् ।
सौत्रामणिमवाप्नोति पूतात्मा भवते च हि ॥ १३.१७१.१२ ॥
同样,在婆陀罗月敬拜感官之主(希利世吉舍),便可获得萨乌特拉曼尼祭之果,灵魂得以清净。
13.171.13
द्वादश्यामाश्विने मासि पद्मनाभेति चार्चयन् ।
गोसहस्रफलं पुण्यं प्राप्नुयान्नात्र संशयः ॥ १३.१७१.१३ ॥
于阿濕縛months之十二日,称颂“莲花脐”(Padmanābha)而供养者,得千牛之功德,此无疑也。
13.171.14
द्वादश्यां कार्तिके मासि पूज्यो दामोदरेति च ।
गवां यज्ञमवाप्नोति पुमान्स्त्री वा न संशयः ॥ १३.१७१.१४ ॥
于迦提迦月之十二日,当以“腰缚”(Dāmodara)之名供养;无论男女,皆得牛祭之果,此无疑也。
13.171.15
अर्चयेत्पुण्डरीकाक्षमेवं संवत्सरं तु यः ।
जातिस्मरत्वं प्राप्नोति विन्द्याद्बहु सुवर्णकम् ॥ १३.१७१.१५ ॥
如是供养“莲目者”满一年者,得宿世之忆;当知亦获多金。
13.171.16
अहन्यहनि तद्भावमुपेन्द्रं योऽधिगच्छति ।
समाप्ते भोजयेद्विप्रानथवा दापयेद्धृतम् ॥ १३.१७१.१६ ॥
每日以此心趋向因陀罗之弟(Upendra)者,于斋戒圆满时,当供养婆罗门,或施予酥油。
13.171.17
अतः परं नोपवासो भवतीति विनिश्चयः ।
उवाच भगवान्विष्णुः स्वयमेव पुरातनम् ॥ १३.१७१.१७ ॥
此后不须斋戒,此乃定论。昔日世尊毗湿奴亲自宣说此事。