摩诃婆罗多 · 章 8.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.45.1
दृष्ट्वा कर्ण महावीर्य युयुत्सुं समास्थितम् ।
चुक्रुशुः कुरवः सर्वे हृष्टरुपाः समन्ततः ॥ ८.४५.१ ॥
众俱卢见大勇的迦尔纳与好战的尤육苏坚守阵地,皆面露喜色,从四面八方高声呼喊。
8.45.2
ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च ।
कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ।
निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम् ॥ ८.४५.२ ॥
于是,在鼓声如雷、大鼓(bherī)轰鸣、各色弦乐之声与勇士的吼声中,你方的战士们全部出阵,把死亡本身当作不退的决心。
8.45.3
प्रयाते तु ततः कर्णे रथेषु मुदितेषु च ।
चचाल च मही सर्वा ररास च सुविस्वरम् ॥ ८.४५.३ ॥
迦尔纳出发,战车欢腾之时,整个大地震动,发出极其刺耳的轰鸣。
8.45.4
निः सरतो व्यदृश्यन्त सूर्यात्सप्ता महाग्रहाः ॥ ८.४५.४ ॥
他们出发之时,太阳中显现出七颗大行星。
8.45.5
उल्कापाताश्च संजज्ञुर्दिग्दाहाश्चैव दारुणाः ।
तथाऽश्न्यश्च संपेतुर्ववुर्वाताश्च भैरवाः ॥ ८.४५.५ ॥
陨石坠落,四方燃起可怕的大火;雷霆也随之坠下,可怖的狂风刮了起来。
8.45.6
मृगपक्षिगणाश्चैव पृतनां बहुशस्तव ।
अपसव्यं तदा चक्रुर्वेद्यन्तो महाभयम् ॥ ८.४५.६ ॥
群兽与成群的飞鸟,多方向左旋绕,向你方军队显示出巨大的恐惧。
8.45.7
प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।
अस्थिवर्ष च पतितमन्तरिक्षाद्भयानकम् ॥ ८.४५.७ ॥
卡尔纳出发之时,他的马匹倒在地上,天空中降下了可怖的骨雨。
8.45.8
जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।
अश्रूणि च् व्यमुञ्चन्त वाहनानि विशांपते ॥ ८.४५.८ ॥
兵器燃烧起来,旗帜颤动,车乘和坐骑流下了泪水,哦,万民之主。
8.45.9
एते चान्ये च बहव उत्पातास्तत्र मारिप ।
समुत्मेतुर्विनाशाय कौरवाणां सुदारुणाः ॥ ८.४५.९ ॥
哦,先生,那里升起了这些以及许多其他的凶兆,对于俱卢族的毁灭极为可怖。
8.45.10
न च तान्गणयमासुः सर्वे दैवेन मोहिताः ।
प्रस्थितं सूतपुत्रं च जयेत्यूचर्नराधिपाः ॥ ८.४५.१० ॥
众王被天命迷惑,竟不把这些放在心上,在御者之子出发时高呼“胜利!”。
8.45.11
शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम् ।
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः ॥ ८.४५.११ ॥
看到与沙利耶同在、在战场上光彩夺目的迦尔纳,俱卢族人以为般度之子已经战败。
8.45.12
ततो रथस्थः परवीरहन्ता भीष्मद्रोणावतिवीर्यौ समीक्ष्य ।
समुज्ज्वलन्भास्करपावकाभो वैकर्तनोऽसौ रथकुञ्जरो वृषा ॥ ८.४५.१२ ॥
那时,站在战车上的伽尔纳——敌方英雄的杀戮者,光辉如日火,车战勇士中的象王、公牛,望向了两位大力的毗湿摩与德罗纳。
8.45.13
स शल्यमाभाष्य जगाद् वाक्यं पार्थस्य दृष्ट्वाऽप्रतिमं च कर्म ।
मानेन दर्णेण विदह्यमानः क्रोधेन दीप्यन्निव निः श्वसंश्च ॥ ८.४५.१३ ॥
他对沙利耶说话后,见到帕尔塔无与伦比的功绩,因傲慢与愤怒而燃烧,仿佛炽烈发光,深深叹息,说出了这些话。
8.45.14
नाहं महेन्द्रादपि वज्रपाणेः क्रुध्दाद्विभेम्यात्तधनू रथस्यः ।
दृष्ट्वाऽपि भीष्मप्रमुखाञ्शयानान्नत्वेव मां सा स्थिरता जहाति ॥ ८.४५.१४ ॥
即使手持金刚杵的摩诃因陀罗发怒,我持弓立于战车之上也不惧怕。即便看到以毗湿摩为首的诸英雄倒在地上,那份坚定也不会离我而去。
8.45.15
महेन्द्रविष्णुप्रतिमावनिन्दितौ रथाश्चनागप्रवरप्रमाथिनौ ।
अवध्यकल्पौ निहतौ यदा परैस्तथापि मे नास्ति रणेऽद्य साध्वसम् ॥ ८.४५.१५ ॥
尽管如因陀罗与毗湿奴一般、无可指摘、能摧毁上等象群、看似不可战胜的车战勇士被敌人杀死,然而今日在战场上我并无恐惧。
8.45.16
समीक्ष्य सङ्ख्येऽतिबलान्नराधिपान् ससूतमातङ्गरथान्परैर्हतान् ।
कथं न सर्वानहितान्रणेऽवधीन्महास्त्रविद्वाह्मणपुङ्गवो गुरुः ॥ ८.४५.१६ ॥
眼见极其强大的诸王与其御者、象群、战车在战场上被敌人杀死,那位精通大兵器、婆罗门中最优秀的师尊,为何不在战场上杀尽所有敌人?
8.45.17
स संस्मरन्द्रोणमहं महाहवे ब्रवीमि सत्यं कुरवो निबोधत ।
नवो मदन्यः प्रसहेद्रणेऽर्जुनं समागतं मृत्युमिवोग्ररुपिणम् ॥ ८.४५.१७ ॥
他想起德罗纳,说道:诸位俱卢,请听我在这场大战中所言的真实之语。除我之外,还有谁能抵挡前来作战的阿周那?他就像以可怖形相降临的死神。
8.45.18
शिक्षा प्रसादश्च बलं धृतिश्च द्रोणे महास्त्राणि च संनतिश्च ।
स चेदगान्मृत्युवशं महात्मा सर्वानन्यानातुरानद्य मन्ये ॥ ८.४५.१८ ॥
学问、恩惠、力量、坚毅、大武器与谦恭,都在德罗那身上。若这位大士已落入死亡之手,那么今日我以为其余的人都已陷入苦境。
8.45.19
नेह ध्रुवं किंचिदपि प्रचिन्तयन् वदामि लोके कर्मणो नित्ययोगात् ।
सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य गुरौ निपातिते ॥ ८.४५.१९ ॥
我于此并非经过确定的思虑而言,只因世间与行动有着恒常的联系。在这尊师倒下的今日,谁能在日出之时,无所疑虑地坚持自己的立场?
8.45.20
न नूनमस्त्राणि बलं पराक्रमः क्रियाः सुनीतं परमायुधानि वा ।
अलं मनुष्यस्य सुखाय वर्तितुं तथाहि युध्दे निहतः परैर्गुरुः ॥ ८.४५.२० ॥
诚然,兵器、力量、勇武、行为、良策或至上的武器,都不足以使人安乐度日,因为在战斗中,尊师已被敌人杀害。
8.45.21
हुताशनादित्यसमानतेजसं पराक्रमे विष्णुपुरंदरोपमम् ।
नये बृहस्पत्युशनः समं सदा न चैनमस्त्रं तदुपास्त दुःसहम् ॥ ८.४५.२१ ॥
此人光辉如火与日,勇武如毗湿奴与因陀罗,智谋常与布里哈斯帕提及乌莎纳斯相等,那难以承受的武器从未触及他。
8.45.22
संप्रक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे ।
कृत्यं मया नाद्य जानामि शल्य प्रयाहि तस्माद्विषतामनीकम् ॥ ८.४५.२२ ॥
德拉什特拉之子的勇力已被击败,妇孺哀号大哭,沙利耶啊,我今日不知自己的职责;所以你前往敌人的军队吧。
8.45.23
स यत्र राजा पाण्डवः सत्यसन्धो व्यवस्थितो भीमसेनार्जुनौ च ।
स वासुदेवः सात्यकिः सृञ्जयाश्च यमौ च कस्तान्विषहेन्मदन्यः ॥ ८.४५.२३ ॥
真诚守誓的般度王与怖军、阿周那所在之处,还有婆苏提婆、萨蒂亚基、苏兰阁耶人以及双子。除我之外,谁能抵挡他们?
8.45.24
तस्मात्क्षिप्रं मद्रपते प्रयाहि रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च ।
तान्वा हिनिष्यामि समेत्य सङ्ख्ये यास्यामि वा द्रोणमुखो यमाय ॥ ८.४५.२४ ॥
因此,马德拉之主啊,速往战场,前去迎战般遮罗、般度之子与苏兰阁耶人。与他们相遇于战场,我要么杀死他们,要么在德罗那的引领下前往阎摩之处。
8.45.25
नत्वेवाहं न गमिष्यामि मध्ये तेषां शूराणामिति शल्याद्य विध्दि ।
मित्रद्रोहो मर्षणीयो न मेऽयं त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥ ८.४५.२५ ॥
但今日你当知道,沙利耶啊:我不会走进那些英雄之中。背叛朋友是我无法忍受的;我将舍弃生命,追随德罗那。
8.45.26
प्राज्ञस्य मूढस्य च जीवितान्ते नास्ति प्रमोक्षोऽन्तकसन्निभस्य ।
अतो विद्वन्नभियोत्स्यामि पार्थ दिष्टं न शक्यं व्यतिवर्तितुं वै ॥ ८.४५.२६ ॥
无论智者还是愚者,在生命尽头都无法摆脱如阎摩般的勇士。因此,博学者啊,我将与普利塔之子交战;命运是不可逾越的。
8.45.27
कल्याणवृत्तः सततं हि राजा वैचित्रवीर्यस्य सुतो ममासीत् ।
तस्यार्थसिध्द्यर्थमहं त्यजामि प्रियान्भोगान्दुस्त्यजं जीवितं च ॥ ८.४५.२७ ॥
毗其陀罗跋利耶之子国王,始终品行端正。为成就他的目标,我舍弃心爱的享乐,也舍弃难以割舍的生命。
8.45.28
वैयाघ्रचर्माणमकूजनाक्षं हैमं त्रिकोशं रजतत्रिवेणुम् ।
रथप्रवर्ह तुरगप्रवर्है र्युक्तं प्रादान्मह्यमिमं हि रामः ॥ ८.४५.२८ ॥
罗摩赠给我这辆战车:覆以虎皮,车轴无声,由黄金制成,三层构造,有三根银杆,套着骏马。
8.45.29
धनूंषि चित्राणि निरिक्ष्य शल्य ध्वजान्गदाः सायकांश्चोग्ररुपान् ।
असिं च दीप्तं परमायुधं च शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥ ८.४५.२९ ॥
舍利耶啊,我看到了奇异的弓、旗帜、狼牙棒、形状狰狞的箭、闪耀的剑、至上的武器,以及洁白、鸣响、可怖的法螺。
8.45.30
पताकिनंवज्रनिपातनिः स्वनं सिताश्वयुक्तं शुभतूणशोभितम् ।
इमं समास्थाय रथर्षभं रणे दृढं हनिष्याम्यहमर्जुनं बलात् ॥ ८.४५.३० ॥
我将登上这辆最好的战车——它有旗帜,发出如雷霆坠落般的轰鸣,套着白色的骏马,装饰着精美的箭袋。我将在战场上坚定地以力量杀死阿周那。
8.45.31
तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाऽप्रमत्तः समरे पाण्डुपुत्रम् ।
तं वा हनिष्यामि रणे समेत्य यास्यामि वा द्रोणमुखो यमाय ॥ ८.४५.३१ ॥
即便夺走一切的死神总是警觉地在战场上保护般度之子,我也会在战场上与他相遇并杀死他;或者我将在德罗纳的率领下前往阎摩之处。
8.45.32
यमवारुणकुबेरवासवा वा यदि युगपत्सगणा महाहवे ।
जुगुपुरिह समेत्य फल्गुनं किमु बहुना सह तैर्जयामि तम् ॥ ८.४५.३२ ॥
即使阎摩、伐留那、俱毗罗与因陀罗率其眷属同时来到这场大战中保护法尔古那,又何必多言?我将与他们一同战胜他。
8.45.33
इति रणरभसस्य कत्थत स्तदुपनिशम्य वश्वः स मद्रराट ।
अवहसदवमन्य वीर्यवान् प्रतिषिषिधे च जगाद् चोत्तरम् ॥ ८.४५.३३ ॥
闻听迦尔纳在战斗热情中如此自夸,勇猛的摩德罗王轻蔑地嘲笑他,制止了他,并回答道。
8.45.34
विरम् विरम् कर्ण कत्थना दतिरभसोऽप्यतिवाचमुक्तवान् ।
क्कच हि नरवरो धनंजयः क्क पुनरिह त्वमहो नराधमः ॥ ८.४५.३४ ॥
住口,住口,迦尔纳!停止你的自夸吧。你因过度的热切而说得太过分了。最优秀的人法尊胜在哪里,而这里的你又在哪里,唉,卑劣之人!
8.45.35
यदुसदनमुपेन्द्रपालितं त्रिदिवमिवामरराजरक्षितम् ।
प्रसभमतिविलोड्य को हरेपुरुषवरावरजामृतेऽर्जुनात् ॥ ८.४५.३५ ॥
除了阿周那,还有谁能强行搅动由优般陀罗(克里希那)守护、如同被天神之王守护的天界一般的耶度族居所,并掳走最优秀之人的幼妹?
8.45.36
त्रिभुवनसृजमीश्वरेश्वरं क इह पुमान्भवमाह्वयेद्युधि ।
मृगवधकलहे ऋतेऽर्जुनात् सुरपतिवीर्यसमप्रभावतः ॥ ८.४५.३६ ॥
在此,除了勇力与权能可与天神之王相匹的阿周那,还有谁敢在鹿猎之争中于战场上挑战创造三界的、诸自在者之自在者婆婆(湿婆)?
8.45.37
असुरसुरमहोरगान्नरान् गरुडपिशाचसयक्षराक्षसान् ।
इषुभिरजयदग्निगौरवात् खभिलपितं च हविर्ददौ जयः ॥ ८.४५.३७ ॥
阿周那以箭击败了阿修罗、天神、大蛇、人类、迦楼罗、毕舍遮、夜叉与罗刹;出于对阿耆尼的敬重,他还将天空中所期望的祭供奉献出来。
8.45.38
स्मरसि ननु यदा परैर्हृतः सहधृतराष्ट्रसुतो विमोक्षितः ।
अधिरथज नरोत्तमैर्युतान् कुरुषु बहून्विनिहत्य तानरीन् ॥ ८.४५.३८ ॥
阿提拉陀之子啊,你可记得,当敌人与持国之子们一同俘获你时,你在俱卢族之中斩杀了许多与最优秀之人同行的敌人,才得以获救?
8.45.39
प्रथममपि पलायिते त्वयि प्रियकलहा धृतराष्ट्रसूनवः ।
स्मरसि ननु यदा प्रमोचिताः खचरगणानवजित्य पाण्डवैः ॥ ८.४५.३९ ॥
你先前逃走时,好争斗的持国之子们在场。你可记得,般度之子们如何战胜了天空飞行的众神灵,并将他们解救?
8.45.40
समुदितबलवाहनाः पुनः पुरुषवरेण जिताः स्थ गोग्रहे ।
सगुरुगुरुसुताः सभीष्मकाः किमु न जितः स तदा त्वयाऽर्जुनः ॥ ८.४५.४० ॥
在夺牛之役中,你们虽与军队和车马齐集,并有师尊、师子与毘湿摩在场,却再次被最优秀之人击败;那时你为何没有战胜那位阿周那?
8.45.41
इदमपरमुपस्थितं पुनस्तव निधनाय सुयुध्दमद्य वै ।
यदि न रिपुभयात्पलायसे समरगतोऽद्य हतोऽसि सूतज ॥ ८.४५.४१ ॥
看哪,又一场激烈的战斗为你的毁灭而兴起。若你不因惧怕敌人而逃跑,既已来到战场,今日你必被杀,御者之子啊。
8.45.42
इति बहुपरुषं प्रभाषति प्रमनसि मद्रपतौ रिपुस्तवम् ।
भृशमभिरुषितः परंतपः कुरुपृतनापतिराह मद्रपम् ॥ ८.४५.४२ ॥
当摩德罗国王说出这许多严厉之言,心神不宁之时,你的敌人,令敌人痛苦的俱卢军统帅极为愤怒,对摩德罗国王说道。
8.45.43
भ्वतु भवतु किं विकत्थसे ननु मम तस्य हि युध्दमुद्यतम् ।
यदि स जयति मामिहाहवे तत इदमस्तु सुकत्थितं तव ॥ ८.४५.४३ ॥
也罢,也罢。你为何夸耀?我与他的战斗确已准备就绪。若他在此战中战胜我,那么你的这番话便算说得好。
8.45.44
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।
याहि शल्येति चाप्येनं कर्णः प्राह युयुत्सया ॥ ८.४५.४४ ॥
摩德罗王说:“就这样吧。”便不再回答。迦尔纳渴望交战,对他说:“沙利耶,驱车前进吧。”
8.45.45
स रथः प्रययौ शत्रून्निध्नतः शल्यसारथिः ।
निध्नन्नमित्रान्समरे तमोध्नः सविता यथा ॥ ८.४५.४५ ॥
以沙利耶为御者的那辆战车向前驰去,击杀敌人。在战场上击杀敌众的它,如同驱散黑暗的太阳。
8.45.46
ततः प्रायात्प्रीतिमान्वै रथेन वैयाघ्रेण श्वेतयुजाऽथ कर्णः ।
स चालोक्य ध्वजिनीं पाण्ड्वानां धनंजयं त्वरया पर्यपृच्छत् ॥ ८.४५.४६ ॥
于是迦尔纳欢喜地驾着套有如虎般白马的战车前进。见到般度之子的军队,他急切地询问财富征服者(阿周那)的所在。