梨俱吠陀 · 赞歌 8.37
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.37.1
प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑र् ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
因陀罗啊,舍质之主!在征服弗栗多的战斗中,你守护了这首祷词,也守护了榨取苏摩的人。弗栗多的杀者啊,无与伦比者啊,持金刚者啊,请以你的全部助力,饮用正午压榨的苏摩。
8.37.2
से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुहः॑ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑र् ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
威猛者啊,征服敌军者,对抗恶意的仇敌,舍质之主因陀罗啊,请以你的全部助力,饮用正午压榨的苏摩。弗栗多的杀者啊,无与伦比者啊,持金刚者啊。
8.37.3
ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑र् ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
唯有你统治这个世界。舍质之主因陀罗啊,请以你的全部助力,饮用正午压榨的苏摩。弗栗多的杀者啊,无与伦比者啊,持金刚者啊。
8.37.4
स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑र् ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
唯有你超越两个萨斯塔瓦那(器皿)。舍质之主因陀罗啊,请以你的全部助力,饮用正午压榨的苏摩。弗栗多的杀者啊,无与伦比者啊,持金刚者啊。
8.37.5
क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑र् ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
你是安稳与获得的主宰。舍质之主因陀罗啊,请以你的全部助力,饮用正午压榨的苏摩。弗栗多的杀者啊,无与伦比者啊,持金刚者啊。
8.37.6
क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑र् ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥
为了统治,唯有你受到护佑,而无人护佑你。舍质之主因陀罗啊,请以你的全部助力,饮用正午压榨的苏摩。弗栗多的杀者啊,无与伦比者啊,持金刚者啊。
8.37.7
श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा॑णि कृण्व॒तः प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इत् ।
नृ॒षाह्य॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥
因陀罗啊,正如你听到了耶娅瓦什娃与列婆的赞颂,你也为行阿特里之事者保护了特拉萨达斯由;你独自在人间的战斗中增长力量。