Upaniṣads · Bṛhadāraṇyaka 5.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Bṛhadāraṇyaka 5.13.1
(प्राणोपासनाब्राह्मणम्)
उक्थम् ।
प्राणो वा उक्थम् ।
प्राणो हीदं सर्वमुत्थापयति ।
उद्धस्मादुक्थविद्वीरस्तिष्ठति ।
उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ५.१३.१ ॥
(The Brahmana on the worship of breath) The uktha. Breath indeed is the uktha. For breath lifts up all this. Therefore the hero who knows the uktha stands firm. He who knows thus wins union with the uktha and sharing its world.
Bṛhadāraṇyaka 5.13.2
यजुः ।
प्राणो वै यजुः ।
प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते ।
युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय ।
यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५.१३.२ ॥
(Yajus) The yajus. Breath indeed is the yajus. In breath all these beings are joined. For his excellence all beings join together. He who knows thus wins union with the yajus and sharing its world.
Bṛhadāraṇyaka 5.13.3
साम ।
प्राणो वै साम ।
प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि ।
सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते ।
साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ ५.१३.३ ॥
(Sāman) The sāman. Breath indeed is the sāman. In breath all these beings converge. For his excellence all beings are made ready. He who knows thus wins union with the sāman and sharing its world.
Bṛhadāraṇyaka 5.13.4
क्षत्रम् ।
प्राणो वै क्षत्रम् ।
प्राणो हि वै क्षत्रम् ।
त्रायते हैनं प्राणः क्षणितोः ।
प्र क्षत्रमत्रमाप्नोति ।
क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ ५.१३.४ ॥
(Kṣatra) The kṣatra. Breath indeed is the kṣatra. For breath is truly the kṣatra. Breath protects him from harm. He obtains power and food. He who knows thus wins union with the kṣatra and sharing its world.