Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 7.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 7.10.1

आपो वावान्नाद्भूयस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयाँसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ ७.१०.१ ॥

水比食物更大。所以当没有好雨时,诸生气(prāṇa)因担心食物匮乏而忧愁;当降下好雨时,诸生气因食物将充足而欢喜。此大地、此中空、天空、山岳、天神与人、牲畜与飞鸟、草木、猛兽,乃至昆虫、飞蛾与蚂蚁,这一切都只是具有形体的水。应当修习水。

Chāndogya 7.10.2

स योऽपो ब्रह्मेत्युपास्त आप्नोति सर्वान्कामाँस्तृप्तिमान्भवति यावदपां गतं तत्रास्य यथाकामचारो भवति । योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवोऽद्भ्यो भूय इत्यद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१०.२ ॥

若有人以水为梵而修习,他便获得一切愿望并得满足,凡水所及之处,他都可随意游行。(那罗陀:)尊者,是否有比水更大的东西?(萨那特鸠摩罗:)有比水更大的东西。愿尊者告诉我。