阿闼婆吠陀 · 颂诗(Sūkta) 2.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.33.1
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥ २.३३.१ ॥
从你的眼睛、鼻子、耳朵、下巴之上;头部的消耗之病,从脑髓与舌头中——我从你身上把它拔除。
2.33.2
ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥ २.३३.२ ॥
从你的颈项、后颈、锁骨、脊柱;肩部之病,从双肩与双臂中——我从你身上把它拔除。
2.33.3
हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।
यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥ २.३३.३ ॥
从你的心脏、肺的周围、横膈膜、两胁之中;疾病从肋骨、脾脏与肝脏中——我们从你身上把它拔除。
2.33.4
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।
यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥ २.३३.४ ॥
从你的肠子、肛门、腹内、肚腹之中;疾病从腹侧、脐窝与肚脐中——我从你身上把它拔除。
2.33.5
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥ २.३३.५ ॥
从你的大腿、膝关节、脚跟、脚掌之中;臀部之病,从腰胯与骨盆中——我从你身上把它拔除。
2.33.6
अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥ २.३३.६ ॥
从你的骨头、骨髓、筋腱、血管之中;疾病从手、指头与指甲中——我从你身上把它拔除。
2.33.7
अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।
यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥ २.३३.७ ॥
你身上每一肢体、每一根毫毛、每一个关节中的消耗之病(yakṣma),那居于你皮肤中的,四散蔓延的,我们以迦叶的刷子将其拔除。