Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 6.70

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.70.1

यथा मांसं यथा सुरा यथाक्षा अधिदेवने ।
यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥ ६.७०.१ ॥

如肉,如酒,如赌局中的骰子,如男子的欲望使女子之心被牢牢系住,如此,啊阿ghnyā,愿你的心牢牢系于小牛之上。

6.70.2

यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे ।
यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥ ६.७०.२ ॥

如公象以足就母象之足,如男子的欲望使女子之心被牢牢系住,如此,啊阿ghnyā,愿你的心牢牢系于小牛之上。

6.70.3

यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि ।
यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥ ६.७०.३ ॥

如车轮之辋,如其支撑,如奔驰之轮的毂,如男子的欲望使女子之心被牢牢系住,如此,啊阿ghnyā,愿你的心牢牢系于小牛之上。