ウパニシャッド · Chāndogya 5.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 5.20.1
अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति व्यानस्तृप्यति ॥ ५.२०.१ ॥
次に、第二の供物は「ヴィヤーナに スヴァーハー」と唱えて捧げるべきである。ヴィヤーナは満たされる。
Chāndogya 5.20.2
व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तृप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्च चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५.२०.२ ॥
ヴィヤーナが満たされると聴覚が満たされ、聴覚が満たされると月が満たされ、月が満たされると方角が満たされ、方角が満たされると方角と月が支えるすべてが満たされる。その後の充足によって、人は子孫、家畜、食物、輝き、そして聖なる知のブラフマヴァルチャス(梵の輝き)に満たされる。