Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 8.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 8.4.1

अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसम्भेदाय नैतꣳ सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतꣳ सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८.४.१ ॥

此阿特曼即是使诸界不相混杂的桥梁与支撑。昼夜不能越过此桥;衰老、死亡、忧愁、善行、恶行皆不能越过。一切罪恶皆从此退回,因为此梵界离于罪恶。

Chāndogya 8.4.2

तस्माद्वा एतꣳ सेतुं तीर्त्वान्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतꣳ सेतुं तीर्त्वापि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८.४.२ ॥

故凡渡此桥者,盲者不复盲,受伤者不复伤,受苦者不复苦。故对渡此桥者,夜亦如昼显现,因此梵界一时即明。

Chāndogya 8.4.3

तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ८.४.३ ॥

凡以梵行证得此梵界者,此梵界即属于他们;他们在一切世界中都可随意往来。