アタルヴァ・ヴェーダ · スークタ 4.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.40.1
ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान् ।
अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥ ४.४०.१ ॥
ああ、ジャータヴェーダスよ。東から供物を捧げ、東の方角から我らを襲う者どもは、アグニに至ると退き、苦しめ。私は返しの紐(プラティサラ)で彼らを打つ。
4.40.2
ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् ।
यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेना प्रतिसरेण हन्मि ॥ ४.४०.२ ॥
ああ、ジャータヴェーダスよ。南から供物を捧げ、南の方角から我らを襲う者どもは、ヤマに至ると退き、苦しめ。私は返しの紐(プラティサラ)で彼らを打つ。
4.40.3
ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान् ।
वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥ ४.४०.३ ॥
ああ、ジャータヴェーダスよ。西から供物を捧げ、西の方角から我らを襲う者どもは、ヴァルナに至ると退き、苦しめ。私は返しの紐(プラティサラ)で彼らを打つ。
4.40.4
य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।
सोममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥ ४.४०.४ ॥
ああ、ジャータヴェーダスよ。北から供物を捧げ、北の方角から我らを襲う者どもは、ソーマに至ると退き、苦しめ。私は返しの紐(プラティサラ)で彼らを打つ。
4.40.5
येऽधस्ताज्जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।
भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥ ४.४०.५ ॥
ああ、ジャータヴェーダスよ。下から供物を捧げ、北の方角から我らを襲う者どもは、大地に至ると退き、苦しめ。私は返しの紐(プラティサラ)で彼らを打つ。
4.40.6
येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान् ।
वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥ ४.४०.६ ॥
ジャータヴェーダスよ、中空から供物を捧げ、道を外れた方角から我らを襲う者どもは、ヴァーユに至って背を向け、混乱せよ。私は反転の紐でこれらを打つ。
4.40.7
य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान् ।
सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥ ४.४०.७ ॥
ジャータヴェーダスよ、上から供物を捧げ、上方の方角から我らを襲う者どもは、スーリヤに至って背を向け、混乱せよ。私は反転の紐でこれらを打つ。
4.40.8
ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्ति अस्मान् ।
ब्रह्मर्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥ ४.४०.८ ॥
ジャータヴェーダスよ、方位の中間の地域から供物を捧げ、あらゆる方角から我らを襲う者どもは、ブラフマンに至って背を向け、混乱せよ。私は反転の紐でこれらを打つ。