Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 7.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 7.2.1

वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्याँ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाँश्च मनुष्याँश्च पशूँश्च वयाँसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ ७.२.१ ॥

萨那特昆玛罗说:言语(vāc)胜过名称。言语使人知道《梨俱吠陀》、《夜柔吠陀》、《娑摩吠陀》,第四是《阿闼婆吠陀》,第五是史诗与往世书,是吠陀中的吠陀,祖灵之学,数术,诸神的宝藏,辩论,唯一之道,神学,梵学,众生之学,武士之学,蛇神与人类之学,天、地、风、虚空、水、火、诸神、人类、牲畜、飞禽、草木、猛兽,乃至昆虫、飞蛾与蚂蚁,法与非法,真实与虚妄,善与不善,心所知与心所不知。若无言语,法与非法、真实与虚妄、善与不善、心知之事都不会被显明。应当观想言语。

Chāndogya 7.2.2

स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.२.२ ॥

若以言语为梵而修习者,在言语所及之处,便得随意游行。尊者,言语之外是否还有更大的?(他说)言语之外有更大的。愿尊者告诉我。