奥义书 · Chāndogya 8.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 8.2.1
स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ ८.२.१ ॥
若他愿望祖先的世界,则凭他的意念,他的祖先便为他起身;他因获得祖先世界而圆满,并受到尊敬。
Chāndogya 8.2.2
अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ ८.२.२ ॥
若有人渴望母亲的世界,他的母亲仅凭其意志便会显现于他面前,他因拥有那母亲的世界而受到尊崇。
Chāndogya 8.2.3
अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ८.२.३ ॥
若有人渴望兄弟的世界,他的兄弟仅凭其意志便会显现于他面前,他因拥有那兄弟的世界而受到尊崇。
Chāndogya 8.2.4
अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ८.२.४ ॥
若有人渴望姐妹的世界,他的姐妹仅凭其意志便会显现于他面前,他因拥有那姐妹的世界而受到尊崇。
Chāndogya 8.2.5
अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ८.२.५ ॥
若有人渴望朋友的世界,他的朋友仅凭其意志便会显现于他面前,他因拥有那朋友的世界而受到尊崇。
Chāndogya 8.2.6
अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ८.२.६ ॥
若有人欲求香与花环之世界,则仅凭其意念(saṅkalpa),香与花环便为他显现;他因这香花环之世界而圆满,并受到尊崇。
Chāndogya 8.2.7
अथ यद्यन्नपानलोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ८.२.७ ॥
若有人欲求食与饮之世界,则仅凭其意念(saṅkalpa),食与饮便为他显现;他因这食饮之世界而圆满,并受到尊崇。
Chāndogya 8.2.8
अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतस्तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८.२.८ ॥
若有人欲求歌唱与乐器之世界,则仅凭其意念(saṅkalpa),歌唱与乐器便为他显现;他因这歌乐之世界而圆满,并受到尊崇。
Chāndogya 8.2.9
अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ८.२.९ ॥
若有人欲求女人之世界,则仅凭其意念(saṅkalpa),女子便为他显现;他因这女人之世界而圆满,并受到尊崇。
Chāndogya 8.2.10
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ ८.२.१० ॥
他所欲求的任何对象、所愿的任何欲望,都只从他的决意(saṅkalpa)中生起;因此得以圆满,并受人尊敬。