Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 6.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.34.1

प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
स नः पर्षदति द्विषः ॥ ६.३४.१ ॥

向大地众生之公牛阿耆尼送去颂词;愿他引领我们度过敌人。

6.34.2

यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा ।
स नः पर्षदति द्विषः ॥ ६.३४.२ ॥

以锐利火焰彻底焚烧罗刹的阿耆尼,愿他引领我们度过敌人。

6.34.3

यः परस्याः परावतस्तिरो धन्वातिरोचते ।
स नः पर्षदति द्विषः ॥ ६.३४.३ ॥

从遥远之地越过荒原而闪耀者,愿他引领我们度过敌人。

6.34.4

यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पर्षदति द्विषः ॥ ६.३४.४ ॥

清楚看见一切世界并同时观照它们者,愿他引领我们度过敌人。

6.34.5

यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
स नः पर्षदति द्विषः ॥ ६.३४.५ ॥

在此气界之彼岸作为光明的阿耆尼而生者,愿他引领我们度过敌人。