Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 6.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.8.1

यथा वृक्षं लिबुजा समन्तं परिषस्वजे ।
एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन् नापगा असः ॥ ६.८.१ ॥

如同利布遮藤从四面缠绕住树木,你也这样从四面拥抱我;愿你对我怀有爱意,不离我而去。

6.8.2

यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् ।
एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥ ६.८.२ ॥

如同金翅鸟俯冲而下,将翅膀压向大地,我也这样压下你的心;愿你对我怀有爱意,不离我而去。

6.8.3

यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः ।
एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥ ६.८.३ ॥

如同这天与地以及太阳即刻绕行,我也这样绕着你的心转动;愿你对我怀有爱意,不离我而去。