摩诃婆罗多 · 章 11.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.22.1
आवनत्यं भीमसेनेन भक्षयन्ति निपातितम् ।
गृध्रगोमायवः शूरं दूरबन्धुमबन्धुवत् ॥ ११.२२.१ ॥
被毗摩赛那击倒的阿般提被秃鹫与豺狼啃食。那位亲属远在他方的英雄,如同无亲无故一般躺卧。
11.22.2
तं पश्य कदनं कृत्वा शूराणां मधुसूदन ।
शयानं वीरशयने रुधिरेण समुक्षितम् ॥ ११.२२.२ ॥
摩图苏陀那啊,请看这场英雄的屠杀;请看他躺在英雄的床榻上,浑身浸满鲜血。
11.22.3
तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः ।
तेनतेन विकर्षन्ति पश्य कालस्य पर्ययम् ॥ ११.२२.३ ॥
豺狼、羯迦鸟和各种食肉之物把他拖来拖去。请看时间的这种逆转。
11.22.4
शयानं वीरशयने शूरमाक्रन्दकारिणम् ।
आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते ॥ ११.२२.४ ॥
那位躺在英雄床榻上、在战场上曾发出呼喊的英雄阿般提周围,坐着哭泣的女人们。
11.22.5
प्रातिपेयं महेष्वासं हतं भीमेन बाह्लिकम् ।
प्रसुप्तमिव शार्दुलं पश्य कृष्णमनस्विनम् ॥ ११.२२.५ ॥
克里希那啊,请看被毗摩杀死的普罗提波之后、大弓箭手巴利迦,他如同沉睡的虎一般躺着,那心志高远之人。
11.22.6
अतीव मुखवर्णोऽस्य निहतस्यापि शोभते ।
सोमस्यवाभिपूर्णस्य पौर्णमास्यां समुद्यतः ॥ ११.२२.६ ॥
即使已被杀死,他面容的光彩依然异常明亮,如同满月之日升起的圆月。
11.22.7
पुत्रशोकाभितप्तेन प्रतिज्ञां चाभिरक्षता ।
पाकशासनिना सङ्ख्ये वार्धक्षत्रिर्निपातितः ॥ ११.२२.७ ॥
我因失子之痛而备受煎熬。恪守誓言的帕卡沙桑尼(阿周那)在战场上击倒了瓦尔德哈克沙特利(胜车)。
11.22.8
एकादशचमूर्भित्त्वा रक्ष्यमाणं महात्मभिः ।
सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम् ॥ ११.२२.८ ॥
你看,此人受众大德守护,却被一心要践行誓言的人冲破十一支军队所杀——胜车已被杀死。
11.22.9
सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम् ।
भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम् ॥ ११.२२.९ ॥
惠我者啊,黑天!信度与苏维罗之主、骄傲而高尚的胜车,正被豺狼和秃鹫吞食。
11.22.10
संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत ।
भीषयन्त्यो विकर्षन्ति गहनं निम्नमन्तिकात् ॥ ११.२२.१० ॥
不朽者啊,他被深爱他的妻子们守护着,她们却惊吓着他,把他从近处拖向茂密的低洼之地。
11.22.11
तमेताः पर्यपासन्ते वीक्षमाणा महाभुजम् ।
सिन्धुसौवीरकाम्भोजगान्धारयवनस्त्रियः ॥ ११.२२.११ ॥
这些女子凝望着这位臂力强大的人,围坐在他身旁——来自信度、苏维罗、迦摩缚阇、乾陀罗与希腊(耶婆那)诸国的女子。
11.22.12
यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह ।
तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः ॥ ११.२२.१२ ॥
黑天啊,就在他劫持了黑公主(德劳帕蒂)并与甘尼亚人逃走的那一刻,胜车便注定要被般度之子所杀。
11.22.13
दुःशलां मानयद्भिस्तु तदा मुक्तो जयद्रथः ।
कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः ॥ ११.२२.१३ ॥
克里希那啊,当时他们尊重难舍罗而释放了胜车,今天他们为何不再尊重她?
11.22.14
सैन्धवं मे सुता बाला प्रस्स्वलन्तीव दुःखिता ।
प्रमापयन्ती चात्मानमाक्रोशन्तीव पाण्डवान् ॥ ११.२२.१४ ॥
我的年幼女儿为了信度王而悲痛欲绝,仿佛踉跄不稳,自我毁灭,又仿佛在咒骂般度之子。
11.22.15
किन्नु दुःखतरं कृष्ण परं मम भविष्यति ।
यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः ॥ ११.२२.१५ ॥
克里希那啊,对我而言,还有什么比这更痛苦呢?我的女儿和年幼的儿媳成了寡妇,她们的夫君都已被杀。
11.22.16
हाहा धिग्धुःशलां पश्य वीतशोकभयामिव ।
भर्तुः शिर अपश्यन्तीं धावमानामितस्ततः ॥ ११.२२.१६ ॥
唉,可耻!看那难舍罗,仿佛无忧无惧,找不到丈夫的头颅,四处奔跑。
11.22.17
वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्विनः ।
स हत्वा विपुलाः सेनाः सर्वयं मृत्युवशं गतः ॥ ११.२२.१७ ॥
那位为了儿子之故而阻拦所有般度之子的人,杀死大量军队后,自己也落入了死亡之手。
11.22.18
तं मत्तमिव मातङ्गं वीरं परमदुर्जयम् ।
परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः ॥ ११.२२.१८ ॥
围绕着那如发狂大象般、极难战胜的英雄,这些面如明月的女人正在痛哭。