Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.136

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.136.1

यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे ।
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक्पृथक् ॥ १३.१३६.१ ॥

请听我讲阎摩告诉沙舍宾杜的那些依星宿分别举行的、为所求而设的祭祀。

13.136.2

श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः ।
अग्नीनाधाय सापत्यो यजेत विगतज्वरः ॥ १३.१३६.२ ॥

在昴宿(Kṛttikā)相会时持续举行祭祀的人,设立圣火并与子孙一同献祭,便能免于忧苦。

13.136.3

अपत्यकामो रोहिण्यां तेजस्कामो मृगोत्तमे ।
क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् ॥ १३.१३६.३ ॥

欲得子嗣者应在罗希尼(Rohiṇī)举行,欲得光辉者在鹿首(Mṛgaśiras)举行;行残酷之事的人若在阿尔德拉(Ārdrā)施行,便会成为那样的人。

13.136.4

कृषिभागी भवेन्मर्त्यः कुर्वञ्श्राद्धं पुनर्वसौ ।
पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ॥ १३.१३६.४ ॥

在普纳瓦苏(Punarvasu)行祭的凡人将成为农事的分享者;欲求滋养者应在普什亚(Puṣya)举行śrāddha。

13.136.5

आश्लेषायां ददच्छ्राद्धं धीरान्पुत्रान्प्रजायते ।
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ॥ १३.१३६.५ ॥

在阿什莱沙(Āśleṣā)施行śrāddha者,会生出坚毅的儿子;在摩伽(Maghā)播种śrāddha者,会在亲族中成为最优秀者。

13.136.6

फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत् ।
अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् ॥ १३.१३६.६ ॥

在费尔古尼(Phalgunī)施行śrāddha者成为有福的施行者;在后费尔古尼(Uttara Phalgunī)则成为子嗣的分享者,在哈斯塔(Hasta)则成为果实的分享者。

13.136.7

चित्रायां तु ददच्छ्राद्धं लभेद्रूपवतः सुतान् ।
स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति ॥ १३.१३६.७ ॥

在星宿Citrā时行śrāddha者,可得美貌的子嗣。在Svāti之合时,敬奉祖先后,人以经商为生。

13.136.8

बहुपुत्रो विशाखासु पुत्रमीनहन्भवेन्नरः ।
अनुराधासु कुर्वाणो राज्यचक्रं प्रवर्तयेत् ॥ १३.१३६.८ ॥

在Viśākhā星宿行śrāddha者,子嗣众多;依某些读本,也可能失去一子。在Anurādhā行之者,推动王权之轮运转。

13.136.9

आधिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन् ।
नरः कुरुकुलश्रेष्ठ ऋद्धो दमपुरःसरः ॥ १३.१३६.९ ॥

在Jyeṣṭhā星宿时克制自身的凡人,可获得统治权。库鲁族中最优秀者啊,富足之人在自制方面居于首位。

13.136.10

मूले त्वारोग्यमृच्छेत यशोऽषाढासु चोत्तमम् ।
उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् ॥ १३.१३६.१० ॥

在Mūla星宿时得健康,在Pūrvāṣāḍhā得至高名声。在Uttarāṣāḍhā行之者,无忧地游历大地。

13.136.11

श्राद्धं त्वभिजितौ कुर्वन्विद्यां श्रेष्ठामवाप्नुयात् ।
श्रवणेषु ददच्छ्राद्धं प्रेत्य गच्छेत्स तद्गतिम् ॥ १३.१३६.११ ॥

在Abhijit星宿行śrāddha者,获得卓越的知识。在Śravaṇa诸宿施予śrāddha者,死后往生于那同样的境界。

13.136.12

राज्यभागी धनिष्ठायां भवेत नियतं नरः ।
नक्षत्रे वारुणे कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥ १३.१३६.१२ ॥

在Dhaniṣṭhā星宿时,人必得分享王权。在Varuṇa星宿(Śatabhiṣaj)行之者,获得医术上的成就。

13.136.13

पूर्वप्रोष्ठपदाः कुर्वन्बहून्विन्दत्यजाविकान् ।
उत्तरासु प्रकुर्वाणो विन्दो गाः सहस्रशः ॥ १३.१३६.१३ ॥

在前贤婆娑星宿下行此仪式者,获得许多山羊和绵羊;在后贤婆娑诸星宿下行之者,获得成千上万头牛。

13.136.14

बहुकुप्यकृतं वित्तं विन्दते रेवतीं श्रितः ।
अश्विनीष्वश्वान्विन्देत भरणीष्वायुरुत्तमम् ॥ १३.१३६.१४ ॥

依托后带星(Revatī)者,获得由许多织物与货品构成的财富;在马头星诸宿(Aśvinī)下应获得马匹,在毕宿(Bharaṇī)下应获得最上的寿命。

13.136.15

इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाऽकरोत् ।
अक्लेसेनाजयच्चापि महीं सोऽनुशशास ह ॥ १३.१३६.१५ ॥

闻此祖先祭仪之法,沙沙宾度亦如是行之;他毫不费力地征服了大地,并统治了它。