Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 7.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 7.7.1

विज्ञानं वाव ध्यानाद्भूयः विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँराशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवाँश्च मनुष्याँश्च पशूँश्च वयाँसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ ७.७.१ ॥

知识确实比禅定更大。凭借知识,人便能知晓《梨俱》、《夜柔》、《娑摩》,第四的《阿闼婆》,作为第五吠陀的史诗与往世书,吠陀中的吠陀,祖先的学问,神圣的宝藏,论辩之术,唯一的道路,诸神的学问,梵的学问,众生的学问,王道的学问,星宿的学问,蛇与神人的学问;天与地,风与空,水与火,神与人,兽与鸟,草与木,猛兽,乃至昆虫、飞蛾与蚂蚁;正与不正,真与妄,善与恶,心所知与心所不知,饮食与滋味,此世与彼世。这一切唯凭知识而知。应修习知识。

Chāndogya 7.7.2

स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.७.२ ॥

若有人以知识(vijñāna)为梵而崇拜,他便得到有知识者与有智慧者的世界。知识所及之处,他便有随意游行的自由。若有人以知识为梵而崇拜。(那罗陀:)尊者啊,有比知识更大的吗?(萨那特昆马罗:)有比知识更大的。愿尊者告诉我。