Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 6.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

6.25.1

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ ६.२५.१ ॥

在法之田、俱卢之野,渴望战斗而聚集的我方与般遮众人,究竟做了什么,桑闪耶?

6.25.2

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ ६.२५.२ ॥

见般遮军列阵已成,于是难敌王走近师尊,说了这番话。

6.25.3

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ६.२५.३ ॥

师尊请看,般度诸子这支庞大的军队,已被您那聪慧的弟子、德鲁帕达之子布置成阵。

6.25.4

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ६.२५.४ ॥

此处有英勇的战士、伟大的弓箭手,在战场上可与毗摩和阿周那相比:尤尤陀那、毗罗吒,以及大车士德鲁帕达。

6.25.5

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कृन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ६.२५.५ ॥

猛光、遮吉檀那、勇猛的迦尸王、普卢吉特、军婆跋闍,以及人中雄牛沙毗耶。

6.25.6

युधामन्युश्च विक्रान्त उत्तमौजाश्च नरपुङ्गवः ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६.२५.६ ॥

勇猛的优陀摩尤、人中雄牛乌当摩乔杰斯、苏跋德拉之子,以及德罗波蒂的诸子——他们都是大车士。

6.25.7

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ६.२५.७ ॥

两生者中最优秀的人啊,请听我们军中那些杰出的统帅。为了让你认出他们,我告诉你。

6.25.8

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः ।
अश्वत्थांमा विकर्णश्च सौमदत्तिर्जयद्रथः ॥ ६.२५.८ ॥

您、毗湿摩、迦尔纳、战胜者克利巴、马嘶、毗迦尔纳,以及苏摩达多之子胜车。

6.25.9

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ६.२५.९ ॥

还有其他许多为我舍弃性命的勇士,他们都持有各种兵器,且精通战斗。

6.25.10

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ ६.२५.१० ॥

我方由毗湿摩守护的那支军队不足;而他们由怖军守护的这支军队却是足够的。

6.25.11

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ६.२५.११ ॥

你们都应按各自的职分,驻守在所有的阵地上,共同守护毗湿摩。

6.25.12

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ ६.२५.१२ ॥

使他欢喜,那位威猛的库鲁长者、祖父发出狮子般的吼声,并高声吹响了法螺。

6.25.13

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ ६.२५.१३ ॥

于是海螺、大鼓、般那伐、阿那迦与牛角号突然齐鸣,那声音化为一片喧嚣。

6.25.14

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दते स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ ६.२५.१४ ॥

于是,立于白马所驾大车上的摩陀婆与般度之子吹响了神圣的海螺。

6.25.15

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ ६.२५.१५ ॥

希利史吉舍吹响般遮readcat耶,财主(阿周那)吹响天授,行事可畏的狼腹(怖军)吹响名为“般德罗”的大海螺。

6.25.16

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ ६.२५.१६ ॥

贡蒂之子国王坚战吹响无尽胜利,无种与偕天吹响善鸣与宝花。

6.25.17

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ ६.२५.१७ ॥

迦尸王、大弓手尸犀堤、大车将猛光、毗罗吒,以及不败的萨谛奇也吹响了海螺。

6.25.18

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ ६.२५.१८ ॥

啊,大地之主!德卢巴达、黑公主之子们,以及臂力强大的苏跋陀罗之子,各自分别吹响了海螺。

6.25.19

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ ६.२५.१९ ॥

那喧嚣之声撕裂了持国百子的心,轰鸣的声响使天空与大地回荡。

6.25.20

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥ ६.२५.२० ॥

那时,旗帜上有猴子的般度之子,见持国之子已列阵,便在兵器交锋开始时举起了弓。

6.25.21

हृषीकेशं तदा वाक्यमिदमाह महीपते ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ ६.२५.२१ ॥

那时,他对休利凯莎说道:“大地之主啊,请把我的战车停在两军之间,无失者啊。”

6.25.22

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ॥ ६.२५.२२ ॥

“让我看看这些站在这里、渴望战斗的人,好知道在这场战争中我必须与谁交战。”

6.25.23

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ ६.२५.२३ ॥

“我看着那些聚集于此、准备战斗、想要在战场上讨好邪恶的持国之子的人。”

6.25.24

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ ६.२५.२४ ॥

婆罗多之裔啊,古陀迦舍如此说完,休利凯莎便将那辆上等战车停在两军之间。

6.25.25

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ ६.२५.२५ ॥

在毗湿摩和德罗纳面前,也在所有国王面前,他说:“帕尔塔,看这些聚集的俱卢人。”

6.25.26

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् ।
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ ६.२५.२६ ॥

在那里,帕尔塔看见站立的父辈、祖辈、师长、舅父、兄弟、儿子、孙子和朋友。

6.25.27

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ ६.२५.२७ ॥

那位昆蒂之子看见两军中的岳父、友人以及所有站立的亲族——

6.25.28

कृपया परयाऽविष्टो विषीदन्निदमब्रवीत् ।
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ ६.२५.२८ ॥

他被极大的怜悯所笼罩,悲伤地说道:“克里希那,看到这些自己的亲族站在这里,渴望战斗——”

6.25.29

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ ६.२५.२९ ॥

我的肢体瘫软,口中干燥,身体颤抖,汗毛竖起。

6.25.30

गाण्डीवं स्रंसते हस्तात्त्वक्वैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ६.२५.३० ॥

甘狄拔弓从我手中滑落,我的皮肤也在燃烧;我无法站立,我的心仿佛在旋转。

6.25.31

निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ६.२५.३१ ॥

克舍婆啊,我看到了不祥的征兆;在战斗中杀死自己的亲族,我看不到任何益处。

6.25.32

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ६.२५.३२ ॥

克利须那啊,我不求胜利,也不求王国与快乐。哥文达啊,王国对我们有什么用,享乐或生命又有什么用?

6.25.33

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ६.२५.३३ ॥

我们为之渴望王国、享乐与快乐的那些人,如今舍弃性命与财富,站在战场上。

6.25.34

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः स्यालाः संबन्धिनस्तथा ॥ ६.२५.३४ ॥

师长、父辈、儿子们,同样还有祖父、舅父、岳丈、孙子、妻兄弟及亲属。

6.25.35

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ६.२५.३५ ॥

摩图苏德那啊,即使他们杀我,我也不愿杀他们;即使为了三界的王国也不愿,更何况为了大地呢。

6.25.36

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ६.२५.३६ ॥

遮那陀那啊,杀死持国的儿子们,我们会有什么快乐?杀死这些侵略者,只会有罪恶降临于我们。

6.25.37

तस्मान्नार्हा यवं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ६.२५.३७ ॥

因此,杀害持国之子及我们自己的亲族,对我们而言是不应当的。摩陀婆啊,杀死自己的族人,我们怎能快乐呢?

6.25.38

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षयकृतं दोषं पित्रद्रोहे च पातकम् ॥ ६.२५.३८ ॥

虽然这些心被贪欲迷惑的人看不见灭族所造成的过失,以及背叛如父之长辈的罪孽,

6.25.39

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ६.२५.३९ ॥

Janārdana啊,我们既然清楚地看见灭族所造成的过失,怎么会不懂得从这罪孽中回头呢?

6.25.40

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ६.२५.४० ॥

家族灭亡时,家族永恒的法度也随之消失。法丧失之后,非法便压倒整个家族。

6.25.41

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ६.२५.४१ ॥

克里希那啊,当非法盛行时,家族中的妇女便会败坏。婆利施尼之后啊,妇女败坏,便会产生种姓混乱。

6.25.42

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां कुप्तपिण्डोदकक्रियाः ॥ ६.२५.४२ ॥

这种混乱只会把灭族之人和整个家族引向地狱。他们的祖先因失去供奉的米团与水而坠落。

6.25.43

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ६.२५.४३ ॥

由于这些毁灭家族、造成种姓混杂之人的过错,种姓之法与永恒的家族之法都被连根拔除。

6.25.44

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ६.२५.४४ ॥

啊,Janārdana,我们听闻,对于家族之法已灭的人,必定居住于地狱。

6.25.45

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ६.२५.४५ ॥

唉!我们竟决意犯下大罪,为贪求王权之乐,竟准备杀害自己的亲族。

6.25.46

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ६.२५.४६ ॥

若持械的持国之子在战场上杀我,而我不抵抗、手无寸铁,那对我来说将更加安稳。

6.25.47

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ६.२५.४७ ॥

阿周那如此说完,在战场上坐在战车的座位上,放下弓与箭,心因悲痛而激荡不安。