摩诃婆罗多 · 章 6.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.35.1
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ ६.३५.१ ॥
为了恩赐于我,你所说的那名为自我知识的至高秘密教言,已使我的这份迷惑消散了。
6.35.2
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ ६.३५.२ ॥
莲花瓣般的眼睛啊,我已从你那里详细听闻了众生的生与灭,也听闻了你不朽的威德。
6.35.3
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥ ६.३५.३ ॥
正如你自己所说的那样,至高的主啊。人中至尊啊,我想看到你那主宰的形相。
6.35.4
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ६.३५.४ ॥
主啊,如果你认为我能够看见它,那么,瑜伽之主啊,请向我显示你不朽的自身。
6.35.5
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥ ६.३५.५ ॥
普利塔之子啊,请看我的百千种形相,种种不同、神圣,颜色与形状各异。
6.35.6
पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याऽश्चर्याणि भारत ॥ ६.३५.६ ॥
看那阿迪提耶、婆苏、楼陀罗、双阿希文以及摩录多。婆罗多啊,请看那许多从未见过的奇迹。
6.35.7
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥ ६.३५.७ ॥
你现在看吧,此处集于一处的整个世界,包括动与不动之物,就在我的身体之中,哦,古达克沙;以及你还想看到的任何其他事物。
6.35.8
न तु मां शक्ष्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ६.३५.८ ॥
但你凭这双自己的眼睛是无法看见我的;我赐予你天眼。看吧,我的主宰之瑜伽。
6.35.9
एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय मरमं रूपमैश्वरम् ॥ ६.३५.९ ॥
大王,如此说后,大瑜伽主哈里便向帕尔塔显示了他至高的主宰之相。
6.35.10
अनेकवक्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभारणं दिव्यानेकोद्यतायुधम् ॥ ६.३५.१० ॥
具有多张面孔与眼睛,呈现多种奇妙的景象,佩戴多种神圣的饰物,高举多种神圣的兵器。
6.35.11
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ॥ ६.३५.११ ॥
身披神圣的花环与衣袍,涂抹神圣的香膏,充满一切奇迹,那无限的神,其面孔朝向一切方向。
6.35.12
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ॥ ६.३५.१२ ॥
若天空中一千个太阳同时升起,那光芒或许才与那位大灵的光辉相似。
6.35.13
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥ ६.३५.१३ ॥
彼时,般度之子在神中之神的身体中,看见整个世界聚于一处,却又以多种方式分化。
6.35.14
ततः स विस्मयाविष्टो हृष्टरोमा धऩञ्जयः ।
प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥ ६.३५.१४ ॥
于是,充满惊异、毛发竖立的财主(阿周那)低头向神致敬,合掌说道。
6.35.15
पश्यामि देवांस्तव देव देहे ।
सर्वांस्तथा भूतविशेषसङ्घान् ।
ब्रह्माणमीशं कमलासनस्थ-
मृषींश्च सर्वानुरगांश्च दिव्यान् ॥ ६.३५.१५ ॥
神啊,我在您的身中看见诸天神、各类众生之群,坐于莲花座上的梵天与自在天,以及一切仙人和神圣的蛇类。
6.35.16
अनेकबाहूदरवक्रनेत्रं ।
पश्यामि त्वां सर्वतोऽनन्तरूपम् ।
नान्तं न मध्यं न पुनस्तवादिं ।
पश्यामि विश्वेश्वर विश्वरूप ॥ ६.३५.१६ ॥
我看见您有众多手臂、腹、面和眼,四面八方皆为无穷之相。我不见您的终、中,亦不见您的始。宇宙之主啊,您的形相即是宇宙。
6.35.17
किरीटिनं गदिनं चक्रिणं च ।
तेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता-
द्दीप्तानलार्कद्युतिमप्रमेययम् ॥ ६.३५.१७ ॥
我看见您戴冠,执杖持轮,光明之聚,四面闪耀,四面难以直视,具有燃烧之火与太阳的光辉,不可度量。
6.35.18
त्वमक्षरं परमं वेदितव्यं ।
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता ।
सनातनस्त्वं पुरुषो मतो मे ॥ ६.३५.१८ ॥
你是应当被认识的至上不灭者。你是这宇宙的最高根基。你不衰不灭,是永恒法的守护者。依我之见,你就是永恒的补鲁沙。
6.35.19
अनादिमध्यान्तमनन्तवीर्य-
मनन्तबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्रं ।
स्वतेजसा विश्वमिदं तपन्तम् ॥ ६.३५.१९ ॥
你无始无中无终,力量无穷,手臂无尽,以日月为双眼,面如燃烧之火。我看见你以自身的光辉烧灼这个宇宙。
6.35.20
द्यावापृथिव्योरिदमन्तरं हि ।
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाद्भुतं रूपमुग्रं तदेवं ।
लोकत्रयं प्रव्यथितं महात्मन् ॥ ६.३५.२० ॥
天地之间的这片空间与所有方位,都只被你一人充满。伟大的灵魂啊,三界见到你这奇异而可畏的形相,都这样惊恐战栗。
6.35.21
अमी हि त्वा सुरसङ्घा विशन्ति ।
केचिद्भीताः प्राञ्जलयो गृणान्ति।
स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः ।
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥ ६.३५.२१ ॥
这些天神的群体进入你之中。有些人因恐惧而合掌赞颂你。诸大仙与成就者的群体说“吉祥!”,并以丰富的颂歌赞美你。
6.35.22
रुद्रादित्या वसवो ये च साध्या ।
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्वयक्षासुरसिद्धसङ्घा ।
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥ ६.३५.२२ ॥
楼陀罗、阿提亚、婆苏与萨提耶、毗首天众、双阿输二神、摩录多与乌什玛波,以及乾达婆、夜叉、阿修罗、悉陀的众群——他们都惊异地注视着你。
6.35.23
रूपं महत्ते बहुवक्रनेत्रं ।
महाबाहो बहुबाहूरुपादम्।
बहूदरं बहुदंष्ट्राकरालं ।
दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ ६.३५.२३ ॥
大臂者啊!见你这巨大的形相,有众多口与眼,众多臂、股与足,众多腹,又以众多獠牙而可怖,诸世界都惊恐不安,我也是如此。
6.35.24
नभःस्पृशं दीप्तमनेकवर्णं ।
व्यात्ताननं दीप्तविशालनेत्रम् ।
दृष्ट्वा हि त्वा प्रव्यथितान्तरात्मा ।
धृतिं न विन्दामि शमं च विष्णो ॥ ६.३५.२४ ॥
毗湿奴啊!见你触及天空、光辉灿烂、色彩繁多,张着大口、眼如熊熊烈焰般广大,我的内心极为不安,既找不到坚定,也得不到平静。
6.35.25
दंष्ट्राकरालानि च ते सुखानि ।
दृष्ट्वैव कालानलसन्निभानि।
दिशो न जाने न लभे च शर्म ।
प्रसीद देवेश जगन्निवास ॥ ६.३५.२५ ॥
见你的面容,獠牙可怖,宛如时间之火,我既辨不清方向,也找不到依靠。请息怒,诸神之主,世界的居所啊。
6.35.26
अमी च त्वां धृतराष्ट्रस्य पुत्राः ।
सर्वे सहैवावनिपालसङ्घैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ ।
सहास्मदीयैरपि योधमुख्यैः ॥ ६.३५.२६ ॥
这些持国之子,连同诸王的军队;还有毗湿摩、德罗纳、那位御者之子,以及我方的主要勇士们——
6.35.27
वक्राणि ते त्वरमाणा विशन्ति ।
दंष्ट्राकरालानि भयानकानि।
केचिद्विलग्ना दशनान्तरेषु ।
संदृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥ ६.३५.२७ ॥
他们急速投入你那弯曲、布满獠牙的可怖之口;有些卡在牙齿之间,头颅已被碾碎。
6.35.28
यथा नदीनां बहवोऽम्बुवेगाः ।
समुद्रमेवाभिमुखा द्रवन्ति।
तथा तवामी नरलोकवीरा ।
विशन्ति वक्राण्यभिविज्वलन्ति ॥ ६.३५.२८ ॥
就像众多河流的水流直奔大海,你的这些人间英雄也进入你弯曲的口中,并且燃烧起来。
6.35.29
यथा प्रदीप्तं ज्वलनं पतङ्गा ।
विशन्ति नाशाय समृद्धवेगाः ।
तथैव नाशाय विशन्ति लोका-
स्तवापि वक्राणि समृद्धवेगाः ॥ ६.३५.२९ ॥
就像飞蛾以全速扑入熊熊烈火而走向毁灭,诸世界也以全速投入你弯曲的口中而走向毁灭。
6.35.30
लेलिह्यसे ग्रसमानः समन्ता-
ल्लोकान्समग्रान्वदनैर्ज्वलद्भिःक ।
तेजोभिरापूर्य जगत्समग्रं ।
भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ६.३५.३० ॥
毗湿奴啊,你从四面八方吞噬整个世界,用燃烧的口舔舐它们;你以光辉充满整个宇宙,你那猛烈的光芒灼烧着它。
6.35.31
आख्याहि मे को भवानुग्ररूपो ।
नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं ।
न हि प्रजानामि तव प्रवृत्तिम् ॥ ६.३५.३१ ॥
请告诉我,你这具有猛烈形象的存在是谁。向你致敬,诸神中最卓越者;请降恩。我想认识你这原初之神,因为我不理解你的行为。
6.35.32
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो ।
लोकान्समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वा न भविष्यन्ति सर्वे ।
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ६.३५.३२ ॥
我是时间,毁灭世界者,已然强盛;我正在此处收摄众世界。即使没有你,那些列阵于敌方行列中的战士们也都无法幸存。
6.35.33
तस्मात्त्वमुत्तिष्ठ यशो लभस्व ।
जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम्।
मयैवैते निहताः पूर्वमेव ।
निमित्तमात्रं भव सव्यसाचिन् ॥ ६.३५.३३ ॥
因此你起来吧,去获得荣耀;战胜敌人之后,享受繁荣的王国。他们早已被我杀死;惯用双手的射手啊,你只需做一个工具。
6.35.34
द्रोणं च भीष्मं च जयद्रथं च ।
कर्णं तथान्यानपि योधवीरान्।
मया हतांस्त्वं जहि माव्यथिष्ठा ।
युद्ध्यस्व जेतानि रणे सपत्नान् ॥ ६.३५.३४ ॥
德罗纳、毗湿摩、胜车、迦尔纳,以及其他英勇的战士——这些都已被我杀死——你去击杀他们吧;不要忧惧。去战斗吧;在战场上你将战胜敌人。
6.35.35
एतच्छ्रुत्वा वचनं केशवस्य ।
कृताञ्जलिर्वेपमानः किरीटी।
नमस्कृत्वा भूय एवाह कृष्णं ।
सगद्गदं भीतभीतः प्रणम्य ॥ ६.३५.३५ ॥
听了毗湿奴(Keśava)的这番话,持冠者(Kirīṭī)双手合十,颤抖着,一再致敬,哽咽着声音,极为恐惧,俯身下拜,对黑天说道。
6.35.36
स्थाने हृषीकेश तव प्रकीर्त्या ।
जगत्प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति ।
सर्वे नमस्यन्ति च सिद्धसङ्घाः ॥ ६.३५.३६ ॥
哦,主宰诸根者(Hṛṣīkeśa),世界因你的名声而正当地欢喜、爱慕;罗刹惊恐地向四方逃散,所有成就者之群都向你致敬。
6.35.37
कस्माच्च ते न नमेरन्महात्मन् ।
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे।
अनन्त देवेश जगन्निवास ।
त्वमक्षरं सदसत्तत्परं यत् ॥ ६.३५.३७ ॥
伟大的灵魂啊,他们为何不向你致敬?你甚至比最初的创造者梵天更伟大。无穷者、诸神之主、世界的居所啊!你是不灭者,超越有与非有。
6.35.38
त्वमादिदेवः पुरुषः पुराण-
स्त्वमस्य विश्वस्य परं निधानम् ।
वेत्ताऽसि वेद्यं च परं च धाम ।
त्वया ततं विश्वमनन्तरूप ॥ ६.३५.३८ ॥
你是最初的神,古老的原人;你是这宇宙的至高宝藏。你是知者,你是所知,你是至高之所。无限形相者啊,这宇宙由你遍满。
6.35.39
वायुर्यमोऽग्निर्वरुणः शशाङ्कः ।
प्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेऽतु सहस्रकृत्वः ।
पुनश्च भूयोऽपि नमो नमस्ते ॥ ६.३५.३९ ॥
你是风、阎摩、火、伐楼那、月亮、生主,也是曾祖父。千次向你致敬,再三致敬,向你致敬!
6.35.40
नमः पुरस्तादथ पृष्ठतस्ते ।
नमोऽस्तु ते सर्वत एव सर्व।
अनन्तवीर्यामितविक्रमस्त्वं ।
सर्वं समाप्नोषि ततोऽसि सर्वः ॥ ६.३५.४० ॥
从前面、从后面向你致敬;从四面八方向你致敬,哦,一切!无限威力、无量勇武者啊!你遍满一切,因此你即是一切。
6.35.41
सखेति मत्वा प्रसभं यदुक्तं ।
हे कृष्ण हे यादव हे सखेति।
अजानता महिमानं तवेदं ।
मया प्रमादात्प्रणयेन वाऽपि ॥ ६.३५.४१ ॥
我把你当作朋友,鲁莽地说了一切——“哦,克里希那,哦,耶达瓦,哦,朋友”——不知你这样的伟大,无论是出于疏忽还是出于亲情。
6.35.42
यच्चापहासार्थमसत्कृतोऽसि ।
विहारशय्यासनभोजनेषु ।
एकोऽथवाप्यच्युत तत्समक्षं ।
तत्क्षामये त्वामहमप्रमेयम् ॥ ६.३५.४२ ॥
若我曾在戏谑中,在行走、卧息、坐席与用餐之时,独处或当众轻慢了你,哦不坏者,哦无量者,我为此向你请求宽恕。
6.35.43
पितासि लोकस्य चराचरस्य ।
त्वमस्य पूज्यश् गुरुर्गरीयान्।
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो ।
लोकत्रयेऽप्यप्रतिमप्रभावः ॥ ६.३५.४३ ॥
你是动与不动一切世界之父,是被尊崇的至尊导师。无人能与你相比,又何谈有谁更胜于你?在三界之中,你的威力无与伦比。
6.35.44
तस्मात्प्रणम्य प्रणिधाय कायं ।
प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः ।
प्रियः प्रियायार्हसि देव सोढुम् ॥ ६.३५.४४ ॥
因此我俯身下拜,恳求你的恩宠,值得赞颂的主啊。如父亲容忍儿子,朋友容忍朋友,爱人容忍所爱,哦神,愿你也能容忍我。
6.35.45
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा ।
भयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपं ।
प्रसीद देवेश जगन्निवास ॥ ६.३५.४५ ॥
见到从未见过的形相,我既欢喜,心却因恐惧而不安。哦神,请把那形相再显示给我。哦诸神之主,世界的居所,请垂怜。
6.35.46
किरीटिनं गदिनं चक्रहस्त-
मिच्छामि त्वां द्रष्टुमहं तथैव।
तेनैव रूपेण चतुर्भुजेन ।
सहस्रबाहो भव विश्वमूर्ते ॥ ६.३५.४६ ॥
我愿见你如此:戴冠、持杖、手执法轮。哦千臂者,宇宙之形,请现出那同一四臂之相吧。
6.35.47
मया प्रसन्नेन तवार्जुनेदं ।
रूपं परं दर्शितमात्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यं ।
यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ६.३५.४७ ॥
阿周那啊,我因喜爱你,以自身瑜伽之力向你显示了这殊胜之相:光明、宇宙、无尽、原始,此前除你之外无人曾见。
6.35.48
न वेद यज्ञाध्ययनैर्न दानै-
र्न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके ।
द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ६.३५.४८ ॥
俱卢之最,无论以祭祀、诵读吠陀、布施、仪轨或苛烈苦行,在人间以此形相,我都不能被你以外的任何人所见。
6.35.49
मा ते व्यथा मा च विमूढभावो ।
दृष्ट्वा रूपं घोरमीदृङ्भमेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं ।
तदेव मे रूपमिदं प्रपश्य ॥ ६.३५.४९ ॥
见此我如是可怖之相,愿你不要忧苦,也不要迷惑。无畏而心中欢喜,你再看一次我的这同一形相吧。
6.35.50
इत्यर्जुनं वासुदेवस्तथोक्त्वा ।
स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं ।
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ६.३५.५० ॥
婆苏提婆如此对阿周那说罢,又向他显示了自己的本相;安慰了这位惊惧的人之后,这位大我又恢复了温和的身相。
6.35.51
दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ६.३५.५१ ॥
janārdana啊,看到你这温和的人形,我如今恢复了神志,回到了本来的状态。
6.35.52
सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ६.३५.५२ ॥
你所见到的我的这种形态极难得见,诸神也时常渴望得见此形。
6.35.53
नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ६.३५.५३ ॥
像你所见到的我这样的形态,我不能被吠陀、苦行、布施或祭祀所见。
6.35.54
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ ६.३५.५४ ॥
阿周那啊,唯有以专一的虔信,我才能以此形态被认识、被看见,并真实地得以进入,啊,灭敌者。
6.35.55
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ६.३५.५५ ॥
为我而行事、以我为至上、是我的信徒、离执、对一切众生无敌意的人——他来到我这里,般度之子啊。