Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.10.1

तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् ।
द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु ॥ ९.१०.१ ॥

当那支军队陷入混乱、彼此相残,战士奔逃、象群也四散奔逃之时。

9.10.2

कूजतां स्तनतां चैव पदातीनां महाहवे ।
निहतेषु महाराज हयेषु बहुधा तदा ॥ ९.१०.२ ॥

在那场大战中,步兵呼喊呻吟,啊大王,那时马匹也被以种种方式杀死。

9.10.3

प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम् ।
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे ॥ ९.१०.३ ॥

在那可怖、骇人的一切有生命者的毁灭与杀戮之中,各种兵器如雨落下,战车与象群彼此纠缠。

9.10.4

हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने ।
गाहमानेषु योधेषु परस्परवधैषिषु ॥ ९.१०.४ ॥

在那场令好战勇士欢欣、令怯懦者恐惧增长的战争中,彼此渴望对方死亡的战士们正投身其中。

9.10.5

प्राणादाने महाघोरे वर्तमाने दुरोदरे ।
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने ॥ ९.१०.५ ॥

在那场夺去生命、如同赌博般进行的可怖战争中,形状恐怖,使阎摩的国土增长。

9.10.6

पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः ।
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् ॥ ९.१०.६ ॥

般度之子以利箭打倒了你们的军队;同样地,你们的战士也杀死了般度的士兵。

9.10.7

तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे ।
पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति ॥ ९.१०.७ ॥

当那场令怯懦者恐惧的战斗如此进行着,上午已至,朝向太阳升起的方向时,

9.10.8

लब्धलक्षाः परे राजन्रक्षितास्तु महात्मना ।
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् ॥ ९.१०.८ ॥

国王啊,达到目标的敌人在那位大德的保护下,与你的军队作战,以死亡本身作为归途。

9.10.9

बलिभिः पाण्डवैर्दृप्तैर्लैब्धलक्षैः प्रहारिभिः ।
कौरव्यसीदत्पृतना मृगीवाग्निबयाकुला ॥ ९.१०.९ ॥

被找到目标、强大而骄傲的般度之子所打击,俱卢之裔啊,你的军队如被火所困的母鹿般陷落。

9.10.10

तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् ।
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति ॥ ९.१०.१० ॥

看到那支军队如陷入泥中的弱牛般沉没,沙利耶想要拯救它,便向般度之子奔去。

9.10.11

मद्रराजः सुसङ्क्रुद्धो गृहीत्वा धनुरुत्तमम् ।
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः ॥ ९.१०.११ ॥

摩德罗国王极为愤怒,持起上好的弓,在战场上冲向侵犯者般度之子。

9.10.12

पाण्डवा अपि भूपाल समरे जितकाशिनः ।
मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः ॥ ९.१०.१२ ॥

大地的守护者啊,自认在战斗中获胜的般度之子走近摩德罗国王,用锋利的箭射穿了他。

9.10.13

ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः ।
अर्दयामास तां सेनां धर्मराजस्य पश्यतः ॥ ९.१०.१३ ॥

于是大车将摩陀罗王以数百支利箭,在法王眼前重创那支军队。

9.10.14

प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः ।
चचाल शब्दं कुर्वाणा मही चापि सपर्वता ॥ ९.१०.१४ ॥

种种形状的凶兆屡屡出现,大地连同山岳也发出声响而震动。

9.10.15

सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः ।
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् ॥ ९.१०.१५ ॥

如带燃烧尖端的棍棒与长矛般的流星四面迸裂,撞击日轮后从天空坠落大地。

9.10.16

मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते ।
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप ॥ ९.१०.१६ ॥

人主啊,君王!那时鹿、水牛与鸟类也多次向左环绕你的军队,这是不祥之兆。

9.10.17

भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ ।
चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम् ॥ ९.१०.१७ ॥

婆利古之子与大地之子,连同月神之子,站在般度诸子之前,所有国王之后。

9.10.18

शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती ।
शिरः स्वलीयन्त भृशं काकोलूकाश्च केतुषु ॥ ९.१०.१८ ॥

兵器尖端出现火焰,击打眼睛如雨倾洒;头颅被紧紧粘住;旗帜上停满了乌鸦与猫头鹰。

9.10.19

ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम् ।
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप ॥ ९.१०.१९ ॥

于是那些并行的军队之间的战斗变得极为激烈,所有部队会合后相互冲撞,人主啊。

9.10.20

अभ्यघ्नत्कौरवो राजा पाण्डवानामनीकिनीम् ।
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् ॥ ९.१०.२० ॥

俱卢王打击般度之子的军队;沙利耶则如千眼因陀罗般降下箭雨。

9.10.21

अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम् ।
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः ॥ ९.१०.२१ ॥

那位心地正直者向昆提之子坚战和怖军降下箭雨,箭羽镶金,经磨石打磨而锋利。

9.10.22

द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ ।
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च ॥ ९.१०.२२ ॥

他还击伤了德劳帕蒂的所有儿子、摩德利的两个儿子般度五子、达利什塔尤姆那、曲族的后裔(萨谛奇)以及尸珂丁。

9.10.23

एकैकं दशभिर्बाणैर्विव्याध स महाबलः ।
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव ॥ ९.१०.२३ ॥

那位大力者以十箭射穿每一个人;随后如夏末的因陀罗一般降下箭雨。

9.10.24

ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः ।
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः ॥ ९.१०.२४ ॥

于是,大王啊,普罗跋陀罗人与苏摩迦人成千上万地倒下,并被沙利耶的箭射倒,清晰可见。

9.10.25

भ्रमराणामिव व्राताः शलभानामिव व्रजाः ।
हादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः ॥ ९.१०.२५ ॥

如蜜蜂成群,如蝗虫成阵,如云中闪电,沙利耶的箭纷纷落下。

9.10.26

द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा ।
शल्यस्य बाणैरपतन्बभ्रमुर्व्यनदंस्तथा ॥ ९.१०.२६ ॥

象与马,受伤的步兵与御车者,同样被沙利耶的箭射倒;他们四处奔走,呼喊不止。

9.10.27

आविष्ट इव मद्रेशो मन्युना पौरुषेण च ।
प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः।
विनर्दमानो मद्रेशो मेघहादो महाबलः ॥ ९.१०.२७ ॥

仿佛被愤怒与豪勇所附身,摩德罗王在战场上遮蔽敌人,如时间所遣的死神。摩德罗王怒吼如雷,声似云中霹雳,大力者。

9.10.28

सा वध्यमाना शल्येन पाण्डवानामनीकिनी ।
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ॥ ९.१०.२८ ॥

那支被沙利耶所击的般度军队,奔向贡提之子、阿阇多设睆卢的坚战。

9.10.29

तां सम्मर्द्य शतैः सङ्ख्ये लघुहस्तः शितैः शरैः ।
बाणवर्षेण महता युधिष्ठिरमताडयत् ॥ ९.१०.२९ ॥

沙利耶手法轻捷,以数百支利箭在战场上击溃那支军队,并以大量箭雨射击坚战。

9.10.30

तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः ।
अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः ॥ ९.१०.३० ॥

对于驾着良种马冲来的他,愤怒的国王坚战以利箭将他阻住,如同用钩棒制住大象。

9.10.31

तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् ।
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् ॥ ९.१०.३१ ॥

沙利耶射出一支可怕的箭,如同毒蛇。他射中了那位大德,并疾速向前冲去。

9.10.32

ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः ।
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ॥ ९.१०.३२ ॥

于是愤怒的狼腹(怖军)以七支箭射中沙利耶。偕提瓦用五支箭,那拉古拉用十支箭射击他。

9.10.33

द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः ।
अभ्यवर्षन्महाराज मेघा इव महीधस्म् ॥ ९.१०.३३ ॥

德劳帕蒂之子以箭雨倾注于沙特鲁格纳和英雄阿尔塔亚尼身上,大王啊,如云朵倾注于山岳之上。

9.10.34

ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः ।
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् ॥ ९.१०.३४ ॥

见沙利耶被般度之子从四面阻挡,克尔塔瓦尔曼与克里帕二人震怒,疾速冲上前去。

9.10.35

उलूकश्च महावीर्यः शकुनिंश्चापि सौबलः ।
समागम्याथ शनकैरश्वत्थामा महाबलः।
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे ॥ ९.१०.३५ ॥

勇猛的乌卢迦、苏波罗之子沙古尼,以及大力的阿输婆摩也缓缓聚集;你的诸子在战场上全力保护沙利耶。

9.10.36

भीमसेनं त्रिभिर्विद्धा कृतवर्मा शिलीमुखैः ।
बाणवर्षेण महता क्रुद्धरूपमवारयत्।
धृष्टद्युम्नं ततः क्रुद्धो बाणवर्षैरपीडयत् ॥ ९.१०.३६ ॥

克尔塔瓦尔曼以三支箭射中怖军,又以大量箭雨阻挡了这位愤怒的勇士。随后他又怒而以箭雨逼迫猛光。

9.10.37

द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् ॥ ९.१०.३७ ॥

沙恭尼攻击德劳波蒂之子和孪生兄弟,德罗纳之子也发动攻击。

9.10.38

दुर्योधनो युधांश्रेष्ठ आहवे केशवार्जुनौ ।
समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली ॥ ९.१०.३८ ॥

杜尉陀那,最优秀的战士,光辉猛烈而强壮,在战斗中全力冲向黑天与阿周那,并以箭射击他们。

9.10.39

एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह ।
घोररूपाणि चित्राणि तत्रतत्र विशाम्पते ॥ ९.१०.३९ ॥

就这样,你方与敌人之间发生了数百场单独的决斗,既可怕又奇异,四处都有,人主啊。

9.10.40

ऋक्षवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे ।
सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः।
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ॥ ९.१०.४० ॥

战斗中,婆闍击杀了毗摩的熊色马;马被杀死后,般度之子从车座上跳下,手持铁棍奋战,如同手持杖的死神。

9.10.41

प्रमुखे सहदेवस्य जघानाश्वान्स मद्रराट् ।
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ॥ ९.१०.४१ ॥

就在偕提婆面前,摩德罗王杀死了他的马;随后偕提婆用剑杀死了沙利耶之子。

9.10.42

गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् ।
असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम् ॥ ९.१०.४२ ॥

导师瞿昙(克里巴)再次与猛光交战;无畏者对无畏者,勤勉者对更勤勉者。

9.10.43

द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः ।
अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव ॥ ९.१०.४३ ॥

师尊之子并不十分愤怒,仿佛在微笑,以十支箭射穿了德劳波蒂的每一位勇士之子。

9.10.44

पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे ।
सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः ॥ ९.१०.४४ ॥

他又在战斗中杀死了怖军的马。马匹被杀后,般度之子迅速从战车上下来。

9.10.45

कालो दण्डमिवोद्यम्य गदां क्रुद्धो महाबलः ।
पोथयामास तुरगान्रथं च कृतवर्मणः।
कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत् ॥ ९.१०.४५ ॥

愤怒的大力者如死神一般高举如棍棒般的狼牙棒,碾碎了克里塔瓦尔曼的马匹和战车。克里塔瓦尔曼却从车上跃下,退向一边。

9.10.46

शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् ।
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् ॥ ९.१०.४६ ॥

大王啊,沙利耶也极为愤怒,杀戮着索摩迦与般度子弟,再次以利箭逼迫坚战。

9.10.47

तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम् ।
विनाशायाभिसन्धाय गदामादाय वीर्यवान् ॥ ९.१०.४७ ॥

在战场上对他愤怒的怖军咬紧嘴唇,决意毁灭,拿起狼牙棒,这位勇猛者向前冲去。

9.10.48

यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् ।
गजवाजिमनुष्याणां देहान्तकरणीमति ॥ ९.१०.४८ ॥

如阎摩之杖,如高举的死亡之夜,使象、马与人的身躯走向终结。

9.10.49

हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव ।
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम् ॥ ९.१०.४९ ॥

缠以金带,如燃烧的流星,如极其凶猛的毒蛇,如金刚杵,以铁制成。

9.10.50

चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव ।
वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव ॥ ९.१०.५० ॥

涂以檀香与沉香膏,如令人渴望的爱人,肢体沾满骨髓与脂肪,如毗婆娑之子阎摩的舌头。

9.10.51

पटुघण्टाशतरवां वासवीमशनीमिव ।
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि ॥ ९.१०.५१ ॥

发出数百个尖锐铃铛的声响,如因陀罗之雷,形如放出的毒蛇,又沾满象的发情液。

9.10.52

त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम् ।
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम् ॥ ९.१०.५२ ॥

令一切众生恐惧,令己军欢喜,名闻人间,能劈裂山峰之巅。

9.10.53

यया कैलासभवने महेश्वरसखं बली ।
आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम् ॥ ९.१०.५३ ॥

威武的昆提之子,以此在凯拉萨的宫殿中挑战了摩醯首罗之友、震怒的阿卢迦之主。

9.10.54

यया मायामयान्दृप्तान्सुबहून्धनदालये ।
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः।
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः ॥ ९.१०.५४ ॥

这位大力者以此在财神的宫殿中,震怒之下击杀了许多由幻化而成、傲慢的古夜迦;为了一朵曼陀罗花,尽管被许多人阻拦,仍坚持要满足德罗波蒂的心愿。

9.10.55

तां वज्रमणिरत्नौघकल्माषां वज्रगौरवाम् ।
समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे ॥ ९.१०.५५ ॥

大臂的毗摩举起那柄镶满金刚石与宝石、重如金刚的铁杵,在战场上扑向沙利耶。

9.10.56

गदया युद्धकुशलस्तया दारुणनादया ।
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ॥ ९.१०.५६ ॥

精通战斗的毗摩用那发出可怖轰鸣的铁杵,将沙利耶四匹疾驰的骏马砸得粉碎。

9.10.57

ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् ।
निचखान नदन्वीरोवर्म भित्त्वा च सोभ्ययात् ॥ ९.१०.५७ ॥

于是沙利耶在战场上怒吼,将一支投枪刺入宽阔的胸膛;那勇士穿透铠甲,继续向前。

9.10.58

वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम् ।
यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि ॥ ९.१०.५८ ॥

然而镇定的狼腹毗摩拔出那支投枪,立即刺穿了摩德罗王御者的心脏。

9.10.59

स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः ।
पपाताभिमुखो भीमं मद्रराजस्त्वपाक्रमत् ॥ ९.१०.५९ ॥

那位铠甲破碎的御者吐着鲜血,心中惊恐,面朝毗摩倒下;而摩德罗王则退却了。

9.10.60

कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः ।
गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत ॥ ९.१०.६० ॥

沙利耶见彼此的攻击与反击,心中惊异,便执起铁杵,以正直之心望向敌人。

9.10.61

ततः सुमनसः पार्था भीमसेनमपूजयन् ।
ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः ॥ ९.१०.६१ ॥

于是心中欢喜的般度之子们赞扬了毗摩娑那,因为他们看到他在战斗中轻而易举地做出的可怕功绩。