Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 6.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 6.9.1

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाँरसान्समवहारमेकताँरसं गमयन्ति ॥ ६.९.१ ॥

亲爱的,正如蜜蜂采集各种不同树木的汁液,将它们酿成同一种蜜汁。

Chāndogya 6.9.2

ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति ॥ ६.९.२ ॥

正如它们在那里不辨别:“我是这棵树的汁液,我是那棵树的汁液”,同样,亲爱的,所有这些众生虽已入于有,却不知道自己已入于有。

Chāndogya 6.9.3

त इह व्याघ्रो वा सिँहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६.९.३ ॥

无论它们在此成为老虎、狮子、狼、野猪、虫子、飞蛾、牛虻或蚊子——无论它们成为什么,它们便成为那个。

Chāndogya 6.9.4

स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.९.४ ॥

此微妙之精华即是一切之自我(ātman);它是真实,它是自我。Śvetaketu,你就是那个。他说:“愿尊者再为我开示。”父亲说:“就这样吧,亲爱的孩子。”