アタルヴァ・ヴェーダ · スークタ 8.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
8.12.18
सोदक्रामत्सा वनस्पतीन् आगच्छत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत् ।
तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥ ८.१२.१८ ॥
彼女は上へ去り、樹木のもとへ来た。樹木は彼女を打った。彼女は年の中に現れた。ゆえに樹木の伐られたものも年の中に再び生える。このように知る者の好まざる敵は切り倒される。
8.12.19
सोदक्रामत्सा पितॄन् आगच्छत्तां पितरोऽघ्नत सा मासि समभवत् ।
तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥ ८.१२.१९ ॥
彼女は上へ去り、祖霊のもとへ来た。祖霊は彼女を打った。彼女は月の中に現れた。ゆえに祖霊には月ごとに供物(upamāsya)が捧げられる。このように知る者は祖霊の道を知る。
8.12.20
सोदक्रामत्सा देवान् आगच्छत्तां देवा अघ्नत सार्धमासे समभवत् ।
तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥ ८.१२.२० ॥
彼女は上へ去り、神々のもとへ来た。神々は彼女を打った。彼女は半月の中に現れた。ゆえに神々のために半月ごとに vaṣaṭ の供物が捧げられる。このように知る者は神々の道を知る。
8.12.21
सोदक्रामत्सा मनुष्यान् आगच्छत्तां मनुष्या अघ्नत सा सद्यः समभवत् ।
तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥ ८.१२.२१ ॥
彼女は上へ去り、人間のもとへ来た。人間は彼女を打った。彼女はすぐに現れた。ゆえに人間のためには両日に食物を運ぶ;近づいて家に運ぶ。このように知る者も同じように行う。