マハーバーラタ · 章 1.201
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.201.1
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः ।
विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा ॥ १.२०१.१ ॥
ドゥリヨーダナ、ドゥルヴィシャハ、ドゥルムカ、ドゥシュプラダルシャナ、ヴィヴィンシャティ、ヴィカルナ、サハ、そしてドゥフシャーサナも同様である。
1.201.2
युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा ।
उग्रायुधो बलाकी च करकायुर्विरोचनः ॥ १.२०१.२ ॥
ユयुツ、ヴァーユヴェガ、ビーマヴェガラヴァ、同様にウグラーユダ、バラーキン、カラカーユ・ヴィローチャナ。
1.201.3
कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः ।
नन्दको बाहुशाली च तुहुण्डो विकटस्तथा ॥ १.२०१.३ ॥
クンダカ、チトラセーナ、スヴァルチャス、カナカドヴァジャ、ナンダカ、バーフシャーリン、トゥフンダ、同様にヴィカタ。
1.201.4
एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः ।
कर्णेन सहिता वीरास्त्वदर्थं समुपागताः ॥ १.२०१.४ ॥
これらと他の多くの強力なドリタラーシュトラの息子たち、カルナと共にいる英雄たちが、あなたのためにここに来ている。
1.201.5
असङ्ख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः ।
शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः ॥ १.२०१.५ ॥
数えきれないほどの大いなる魂の王たち、クシャトリヤの中の雄牛たち。シャクニ、スバラの子、ヴリシャカ、そしてブリハドバラ。
1.201.6
एते गान्धारराजस्य सुताः सर्वे समागताः ।
अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ ॥ १.२०१.६ ॥
ガーンダーラ王の息子たちは皆集まり、またアシュヴァッターマンとボージャは、すべての武器の使い手の中で最も優れた二人である。
1.201.7
समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ ।
बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः ॥ १.२०१.७ ॥
あなたのために美しく飾って集まった二人の大いなる魂の者、ブリハンタとマニマーン、そして王ダンダダーラ。
1.201.8
सहदेवजयत्सेनौ मेघसन्धिश्च पार्थिवः ।
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ॥ १.२०१.८ ॥
サハデーヴァとジャヤトセーナ、王メーガサンディ、二人の息子とともにいるヴィラータ、そしてシャンカとウッタラも。
1.201.9
वार्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः ।
सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा ॥ १.२०१.९ ॥
ヴァールダクシェーミとスシャルマー、王セーナービンドゥ、息子とともにいるスケートゥ、そしてスナーマンとスヴァルチャス。
1.201.10
सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा ।
सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा ॥ १.२०१.१० ॥
スチトラとスクマーラ、ヴリカとサティヤドリティも同様に、スーリヤドヴァジャ、ローチャマーナ、ニーラ、そしてチトラーユダも同様に。
1.201.11
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः ।
समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान् ॥ १.२०१.११ ॥
アンシュマーンとエキターナ、大力のシュレーニマーン、サムドラセーナの息子、そして勇猛なチャンドラセーナ。
1.201.12
जलसन्धः पितापुत्रौ विदण्डो दण्ड एव च ।
पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान् ॥ १.२०१.१२ ॥
ジャラサンダ、父と息子、ヴィダンダとダンダも、パウンドラカ・ヴァースデーヴァ、そして勇猛なバガダッタ。
1.201.13
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा ।
मद्रराजस्तथा शल्यः सहपुत्रो महारथः ॥ १.२०१.१३ ॥
カリンガの王、タームラリプタ、同じく港町の主、そしてマドラ王シャリヤが息子とともに、大戦車の勇士である。
1.201.14
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च ।
कौरव्यः सोमदत्तश्च पुत्रश्चास्य महारथः ॥ १.२०१.१४ ॥
英雄ルクマーンガダと同じくルクマラタ、そしてクル族のソーマダッタと息子、大戦車の勇士たちである。
1.201.15
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः ।
सुदक्षिणश्च काम्भोजो दृढधन्वा च पौरवः ॥ १.२०१.१५ ॥
集まった三人の勇士、ブーリ、ブーリシュラヴァス、シャラ;そしてカンボージャのスダクシナと、パウラヴァのドリダダンヴァン。
1.201.16
बृहद्बलः सुषेणश्च शिबिरौशीनस्तथा ।
पटच्चरनिहन्ता च कारूषाधिपतिस्तथा ॥ १.२०१.१६ ॥
ブリハドバラとスシェーナ、ウシーナラの子シビ、パッタチャラを討つ者、そしてカールーシャの主もまた同様である。
1.201.17
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान् ।
साम्बश्च चारुदेष्णश्च प्राद्युम्निः सगदस्तथा ॥ १.२०१.१७ ॥
サンカルシャナとヴァースデーヴァ、ルクミニーの勇猛な息子、サーンバとチャールデーシュナ、そしてガダとともにいるプラディユムナの息子もまた同様である。
1.201.18
अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः ।
कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च ॥ १.२०१.१८ ॥
アクルーラとサーティヤキ、賢明なウッダヴァ、フルディーカの子クリタヴァルマン、そしてプリトゥとヴィプリトゥもまた。
1.201.19
विदूरथश्च कङ्कश्च शङ्कुश्च सगवेषणः ।
आशावहोऽनिरुद्धश्च समीकः सारिमेजयः ॥ १.२०१.१९ ॥
ヴィドゥーラタとカンカ、シャンク とサガヴェーシャナ、アーシャーヴァハとアニルッダ、サミーカとサーリメージャヤ。
1.201.20
वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा ।
उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः ॥ १.२०१.२० ॥
勇士ヴァータパティ、ジッリーとピンダーラカ、ウシーナラと勇猛な者──彼らはヴリシュニ族と称される。
1.201.21
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः ।
बृहद्रथो बाह्लिकश्च श्रउतायुश्च महारथः ॥ १.२०१.२१ ॥
バギーラタ、ブリハトクシャトラ、シンドゥの王ジャヤドラタ、ブリハドラタ、バーリカ、そして大戦車将シュルターユ。
1.201.22
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ ।
वत्सराजश्च मतिमान्कोसलाधिपतिस्तथा ॥ १.२०१.२२ ॥
ウルーカ、カイタヴァ王、チトラーンガダとシュバーンガダ、賢者ヴァツァラージャ、そしてコーサラの主。
1.201.23
शिशुपालख्च विक्रान्तो जरासन्धस्तथैव च ।
एते चान्ये च बहवो नानाजनपदेश्वराः ॥ १.२०१.२३ ॥
シシュパーラと勇猛なジャラーサンダ、彼ら、そして他の多くの、様々な地方の支配者たち。
1.201.24
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि ।
एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम्।
विध्यते य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम् ॥ १.२०१.२४ ॥
めでたき人よ、あなたのために地上に名高いクシャトリヤたちが来ました。この勇士たちがあなたのためにこの最上の標的を射抜くでしょう。麗しき人よ、今日この標的を射抜いた者を、あなたは選びなさい。