Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 9.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

9.11.1

तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् ।
द्रवमाणेषु योधेषु विद्रवत्सु च दन्तिषु ॥ ९.११.१ ॥

当那支军队陷入混乱、彼此相互屠杀,战士们逃散、象群四处奔逃之时,

9.11.2

कूजतां स्तनतां चैव पदातीनां महाहवे ।
निहतेषु महाराज हयेषु बहुधा तदा ॥ ९.११.२ ॥

在那场大战中,步兵们哭喊呻吟,大王啊,那时战马也被以种种方式杀死,

9.11.3

प्रक्षये दारुणे घोरे संहारे सर्वदेहिनाम् ।
नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे ॥ ९.११.३ ॥

在那场可怕、恐怖的毁灭与屠杀中,一切有身者都遭殃,各种武器纷纷落下,战车与象群彼此纠缠,

9.11.4

हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने ।
गाहमानेषु योधेषु परस्परवधैषिषु ॥ ९.११.४ ॥

在那场令善战勇士欢欣、令怯懦者恐惧增长的战斗中,战士们寻求彼此的死亡,纷纷投入其中,

9.11.5

प्राणादाने महाघोरे वर्तमाने दुरोदरे ।
सङ्ग्रामे घोररूपे तु यमराष्ट्रविवर्धने ॥ ९.११.५ ॥

在那场夺取性命、极度可怖、如同赌局般持续、形态恐怖、增加阎摩王国的战斗中,

9.11.6

पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः ।
तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् ॥ ९.११.६ ॥

般度之子以利箭打散了你的军队,同样,你的战士们也杀死了般度之子的士兵。

9.11.7

तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे ।
पूर्वाह्णे चापि सम्प्राप्ते भास्करोदयनं प्रति ॥ ९.११.७ ॥

当这场令怯懦者恐惧的战斗如此进行,上午已至,朝向太阳升起的方向时,

9.11.8

लब्धलक्षाः परे राजन्रक्षितास्तु महात्मना ।
अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् ॥ ९.११.८ ॥

君王啊,已达成目标的对方在大德者的护佑下,将死亡作为退路,与你的军队交战。

9.11.9

बलिभिः पाण्डवैर्दृप्तैर्लैब्धलक्षैः प्रहारिभिः ।
कौरव्यसीदत्पृतना मृगीवाग्निबयाकुला ॥ ९.११.९ ॥

被强大而骄傲、已达成目标的般度之子们的打击,你的军队,啊,俱卢之裔,如同被火包围的母鹿般困苦,正在沉没。

9.11.10

तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् ।
उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुसुतान्प्रति ॥ ९.११.१० ॥

看到那支军队如同陷入泥中的弱牛般沉没,沙利耶想要将其扶起,便向般度之子们冲去。

9.11.11

मद्रराजः सुसङ्क्रुद्धो गृहीत्वा धनुरुत्तमम् ।
अभ्यद्रवत सङ्ग्रामे पाण्डवानाततायिनः ॥ ९.११.११ ॥

摩德罗国王大为愤怒,取过最好的弓,在战斗中向侵犯者般度之子们猛扑过去。

9.11.12

पाण्डवा अपि भूपाल समरे जितकाशिनः ।
मद्रराजं समासाद्य बिभिदुर्निशितैः शरैः ॥ ९.११.१२ ॥

啊,大地的守护者,自认为在战斗中取胜的般度之子们也来到摩德罗国王面前,用利箭射穿了他。

9.11.13

ततः शरशतैस्तीक्ष्णैर्मद्रराजो महारथः ।
अर्दयामास तां सेनां धर्मराजस्य पश्यतः ॥ ९.११.१३ ॥

于是大车将摩德罗王以数百支锐利之箭,在坚战王眼前侵扰那支军队。

9.11.14

प्रादुरासन्निमित्तानि नानारूपाण्यनेकशः ।
चचाल शब्दं कुर्वाणा मही चापि सपर्वता ॥ ९.११.१४ ॥

种种不同形状的凶兆多次出现,大地连同山峦都发出声响而震动。

9.11.15

सदण्डशूला दीप्ताग्रा दीर्यमाणाः समन्ततः ।
उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् ॥ ९.११.१५ ॥

如棒与矛般、顶端燃烧的流星,四处划裂,从天上撞击日轮而坠落大地。

9.11.16

मृगाश्च महिषाश्चापि पक्षिणश्च विशाम्पते ।
अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप ॥ ९.११.१६ ॥

鹿、水牛与鸟类,啊人主,啊王,多次以不吉之势从左方环绕你的军队。

9.11.17

भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ ।
चरमं पाण्डुपुत्राणां पुरस्तात्सर्वभूभुजाम् ॥ ९.११.१७ ॥

婆利古之子、大地的两子与月之子共同站立在般度之子和一切王者之前。

9.11.18

शस्त्राग्रेष्वभवज्ज्वाला नेत्राण्याहत्य वर्षती ।
शिरः स्वलीयन्त भृशं काकोलूकाश्च केतुषु ॥ ९.११.१८ ॥

兵器的尖端出现火焰,撞击眼睛并如雨倾泻;旗帜上,乌鸦与猫头鹰紧紧依附在头上。

9.11.19

ततस्तद्युद्धमत्युग्रमभवत्सहचारिणाम् ।
तथा सर्वाण्यनीकानि सन्निपत्य जनाधिप ॥ ९.११.१९ ॥

于是并肩作战者之间的战斗变得极其惨烈,所有军队会合后相互冲杀,人主啊。

9.11.20

अभ्यघ्नत्कौरवो राजा पाण्डवानामनीकिनीम् ।
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् ॥ ९.११.२० ॥

俱卢王攻击了般度之子的军队;而沙利耶如千眼因陀罗降雨般,倾下箭雨,也发起了攻击。

9.11.21

अभ्यवर्षत धर्मात्मा कुन्तीपुत्रं युधिष्ठिरम् ।
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितैः ॥ ९.११.२१ ॥

那位正直之人向昆提之子坚战倾下箭雨,也向怖军倾下箭雨,那是以金羽、在石上磨利的箭。

9.11.22

द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ ।
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च ॥ ९.११.२२ ॥

他也射伤了德罗波蒂的所有儿子、玛德丽的两个般度之子、德里斯塔圆、希尼之子(萨谛奇)以及希坎丁。

9.11.23

एकैकं दशभिर्बाणैर्विव्याध स महाबलः ।
ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव ॥ ९.११.२३ ॥

那位大力者每人以十箭射穿;随后如因陀罗于夏末降雨般,射出箭雨。

9.11.24

ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः ।
पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः ॥ ९.११.२४ ॥

那时,大王啊,普罗跋陀罗人与苏摩迦人成千上万地倒下,并被沙利耶的箭射倒,人们可以看到。

9.11.25

भ्रमराणामिव व्राताः शलभानामिव व्रजाः ।
हादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः ॥ ९.११.२५ ॥

如蜂群,如蝗群,如云中闪电,沙利耶的箭纷纷落下。

9.11.26

द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा ।
शल्यस्य बाणैरपतन्बभ्रमुर्व्यनदंस्तथा ॥ ९.११.२६ ॥

象、马、步卒与车士受伤,倒在沙利耶的箭下,旋转翻滚,并发出呼号。

9.11.27

आविष्ट इव मद्रेशो मन्युना पौरुषेण च ।
प्राच्छादयदरीन्सङ्ख्ये कालसृष्ट इवान्तकः।
विनर्दमानो मद्रेशो मेघहादो महाबलः ॥ ९.११.२७ ॥

仿佛被愤怒与男儿气概所附,摩德罗王在战场上遮蔽了敌人,如同时间派来的死神。摩德罗之主咆哮着,声如雷鸣,大力无比。

9.11.28

सा वध्यमाना शल्येन पाण्डवानामनीकिनी ।
अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ॥ ९.११.२८ ॥

那支被沙利耶击打的般度军队,奔向昆蒂之子、无敌者阿阇多舍都鲁(即坚战)。

9.11.29

तां सम्मर्द्य शतैः सङ्ख्ये लघुहस्तः शितैः शरैः ।
बाणवर्षेण महता युधिष्ठिरमताडयत् ॥ ९.११.२९ ॥

沙利耶手法灵便,以数百支利箭在战场上摧毁那支军队,并以大雨般的箭矢击中坚战。

9.11.30

तमापतन्तं जात्यश्वैः क्रुद्धो राजा युधिष्ठिरः ।
अवारयच्छरैस्तीक्ष्णैर्महाद्विपमिवाङ्कुशैः ॥ ९.११.३० ॥

那位以良马冲来之人,被愤怒的国王坚战以利箭拦住,如用钩杖制止大象。

9.11.31

तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् ।
सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् ॥ ९.११.३१ ॥

沙利耶射出一支可怕的箭,如同毒蛇。他射中了那位伟大心灵者,并迅速冲向前方,贴着大地而去。

9.11.32

ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः ।
पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ॥ ९.११.३२ ॥

于是愤怒的狼腹(怖军)以七支箭射中沙利耶;偕提婆以五支,那古拉以十支箭射中他。

9.11.33

द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः ।
अभ्यवर्षन्महाराज मेघा इव महीधस्म् ॥ ९.११.३३ ॥

大王啊,德罗波蒂的儿子们向沙特鲁娜和英雄阿尔塔亚尼倾泻箭雨,如同乌云降雨于山峦。

9.11.34

ततो दृष्ट्वा वार्यमाणं शल्यं पार्थैः समन्ततः ।
कृतवर्मा कृपश्चैव सङ्क्रुद्धावभ्यधावताम् ॥ ९.११.३४ ॥

此时,见沙利耶被般度之子从四面八方阻挡,胜军与慈悲者都大怒,冲了上去。

9.11.35

उलूकश्च महावीर्यः शकुनिंश्चापि सौबलः ।
समागम्याथ शनकैरश्वत्थामा महाबलः।
तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे ॥ ९.११.३५ ॥

勇猛的乌卢迦、苏巴拉之子沙古尼,以及强大的马嘶,一同缓缓赶来;你的儿子们在战斗中全力保护了沙利耶。

9.11.36

भीमसेनं त्रिभिर्विद्धा कृतवर्मा शिलीमुखैः ।
बाणवर्षेण महता क्रुद्धरूपमवारयत्।
धृष्टद्युम्नं ततः क्रुद्धो बाणवर्षैरपीडयत् ॥ ९.११.३६ ॥

胜军以三支箭射中怖军,并以密集的箭雨阻挡那位愤怒的勇士;随后他愤怒地以箭雨折磨持国的将领猛光。

9.11.37

द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् ॥ ९.११.३७ ॥

沙古尼与德罗纳之子进攻德劳帕蒂的儿子们和双生子。

9.11.38

दुर्योधनो युधांश्रेष्ठ आहवे केशवार्जुनौ ।
समभ्ययादुग्रतेजाः शरैश्चाप्यहनद्बली ॥ ९.११.३८ ॥

勇士中的翘楚、烈焰般威武的难敌在战斗中同时进攻克里希纳与阿周那,并以箭射伤他们。

9.11.39

एवं द्वन्द्वशतान्यासंस्त्वदीयानां परैः सह ।
घोररूपाणि चित्राणि तत्रतत्र विशाम्पते ॥ ९.११.३९ ॥

如此,人主啊,你方与敌方之间,此处彼处发生了数百场可怖而奇异的单挑。

9.11.40

ऋक्षवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे ।
सोऽवतीर्य रथोपस्थाद्धताश्वात्पाण्डुनन्दनः।
कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ॥ ९.११.४० ॥

战斗中,婆伽杀死了毗摩的熊色马。马匹被杀后,般度之子从战车平台上下来,高举鎚杖如死神之杖,继续战斗。

9.11.41

प्रमुखे सहदेवस्य जघानाश्वान्स मद्रराट् ।
ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ॥ ९.११.४१ ॥

就在萨哈德瓦面前,摩德罗国王杀死了他的马;随后萨哈德瓦以剑斩杀了沙利耶之子。

9.11.42

गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् ।
असम्भ्रान्तमसम्भ्रान्तो यत्नवान्यत्नवत्तरम् ॥ ९.११.४२ ॥

乔达摩与老师再次与德里什塔衍那交战;不动者对不动者,勤勉者以更加勤勉的力量相战。

9.11.43

द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः ।
अविद्ध्यदाचार्यसुतो नातिक्रुद्धो हसन्निव ॥ ९.११.४३ ॥

师尊之子一一用十支箭射穿了德罗波蒂的儿子们和其他英雄,并未大怒,仿佛在微笑。

9.11.44

पुनश्च भीमसेनस्य जघानाश्वांस्तथाऽऽहवे ।
सोऽवतीर्य रथात्तूर्णं हताश्वः पाण्डुनन्दनः ॥ ९.११.४४ ॥

他又在战斗中杀死了毗摩森那的马;潘度之子因马已死,迅速从战车上下来。

9.11.45

कालो दण्डमिवोद्यम्य गदां क्रुद्धो महाबलः ।
पोथयामास तुरगान्रथं च कृतवर्मणः।
कृतवर्मा त्ववप्लुत्य रथात्तस्मादपाक्रमत् ॥ ९.११.४५ ॥

这位愤怒的大力者如同死神举杖,高举狼牙棒,碾碎了过哩多跋尔曼的马和战车;但过哩多跋尔曼跳下战车,退了开去。

9.11.46

शल्योऽपि राजन्सङ्क्रुद्धो निघ्नन्सोमकपाण्डवान् ।
पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् ॥ ९.११.४६ ॥

大王啊,沙利耶也极为愤怒,杀戮着索摩迦与般度子孙,又以锐利的箭再次袭击坚战。

9.11.47

तस्य भीमो रणे क्रुद्धः सन्दश्य दशनच्छदम् ।
विनाशायाभिसन्धाय गदामादाय वीर्यवान् ॥ ९.११.४७ ॥

战场上,愤怒的毗摩咬紧嘴唇,决意毁灭他,勇猛的毗摩拿起了狼牙棒。

9.11.48

यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् ।
गजवाजिमनुष्याणां देहान्तकरणीमति ॥ ९.११.४८ ॥

如阎摩之杖,如高举的死亡之夜,终结象、马与人的身躯。

9.11.49

हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव ।
शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयोमयीम् ॥ ९.११.४९ ॥

缠着金箍,如燃烧的流星,由精钢制成,极其凶猛如毒蛇,如金刚杵般的铁制(狼牙棒)。

9.11.50

चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव ।
वसामेदोपदिग्धाङ्गीं जिह्वां वैवस्वतीमिव ॥ ९.११.५० ॥

涂抹着檀香与沉香之膏,如心爱的女子,肢体沾满脂肪与骨髓,如阎摩之舌(狼牙棒)。

9.11.51

पटुघण्टाशतरवां वासवीमशनीमिव ।
निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि ॥ ९.११.५१ ॥

发出数百个尖锐铃铛之声,如因陀罗之雷杵,形如释放的毒蛇,甚至沾满象的发情液(狼牙棒)。

9.11.52

त्रासनीं सर्वभूतानां स्वसैन्यपरिहर्षिणीम् ।
मनुष्यलोके विख्यातां गिरिशृङ्गविदारणीम् ॥ ९.११.५२ ॥

令一切众生恐惧,令自己军队欢喜,名闻人间,能劈裂山峰(狼牙棒)。

9.11.53

यया कैलासभवने महेश्वरसखं बली ।
आह्वयामास कौन्तेयः सङ्क्रुद्धमलकाधिपम् ॥ ९.११.५३ ॥

勇猛的贡蒂之子用此物,在凯拉萨宫中挑战摩醯首罗的朋友,愤怒的财神之主(那狼牙棒)。

9.11.54

यया मायामयान्दृप्तान्सुबहून्धनदालये ।
जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः।
निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः ॥ ९.११.५४ ॥

勇猛的贡蒂之子愤怒地在财神宫中用此物击杀了许多由幻术所化、傲慢的半神夜叉,只为一朵曼陀罗花——尽管众人阻拦,他仍决意满足德罗波蒂的心愿(那狼牙棒)。

9.11.55

तां वज्रमणिरत्नौघकल्माषां वज्रगौरवाम् ।
समुद्यम्य महाबाहुः शल्यमभ्यपतद्रणे ॥ ९.११.५५ ॥

这根镶嵌着金刚石与宝石堆、重如金刚的铁棒被大臂者高高举起,在战场上扑向沙利耶。

9.11.56

गदया युद्धकुशलस्तया दारुणनादया ।
पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ॥ ९.११.५६ ॥

这位善战者以那发出可怖声响的铁棒,砸碎了沙利耶的四匹疾驰之马。

9.11.57

ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् ।
निचखान नदन्वीरोवर्म भित्त्वा च सोभ्ययात् ॥ ९.११.५७ ॥

这时沙利耶在战场上愤怒吼叫,将一支标枪刺入他宽阔的胸膛;它穿透铠甲,穿过而去。

9.11.58

वृकोदरस्त्वसम्भ्रान्तस्तमेवोद्धृत्य तोमरम् ।
यन्तारं मद्रराजस्य निर्बिभेद तदा हृदि ॥ ९.११.५८ ॥

然而狼腹不为所动,拔出那支标枪,立刻刺穿了摩德罗王御者的心脏。

9.11.59

स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः ।
पपाताभिमुखो भीमं मद्रराजस्त्वपाक्रमत् ॥ ९.११.५९ ॥

他铠甲被刺穿,吐出鲜血,心中惊恐,面朝向婆罗多的狼腹倒下;而摩德罗王则撤退了。

9.11.60

कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः ।
गदामाश्रित्य धर्मात्मा प्रत्यमित्रमवैक्षत ॥ ९.११.६० ॥

见到一击之后又有一击回报,心中惊诧的正法者沙利耶握起铁棒,望向他的敌人。

9.11.61

ततः सुमनसः पार्था भीमसेनमपूजयन् ।
ते दृष्ट्वा कर्म सङ्ग्रामे घोरमक्लिष्टकर्मणः ॥ ९.११.६१ ॥

于是欢喜的般度之子们敬重怖军。他们见他在战场上所作的可怖之事,那作事毫不费力者的功业,便向他致敬。