Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 1.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 1.9.1

अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः परायणम् ॥ १.९.१ ॥

“这个世界的去路是什么?”“虚空(ākāśa)。”他说:“实则,这一切众生只从虚空中生起,回归虚空而消融于其中。虚空比这些更大,虚空是至高的归宿。”

Chāndogya 1.9.2

स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान्परोवरीयाꣳसमुद्गीथमुपास्ते ॥ १.९.२ ॥

此至上的乌德吉陀确实是无限的。知此而冥想至上乌德吉陀的人,便成为至上者,并赢得至上的世界。

Chāndogya 1.9.3

तꣳ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिꣳल्लोके जीवनं भविष्यति ॥ १.९.३ ॥

阿提丹婉·首那迦将此告诉优陀罗尸濡狄利耶后说:只要他们的后代中仍有人知晓此乌德吉陀,他们在此世的生命便将是至上的。

Chāndogya 1.9.4

तथामुष्मिꣳ ल्लोके लोक इति स य एतमेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिꣳल्लोके जीवनं भवति तथामुष्मिꣳल्लोके लोक इति लोके लोक इति ॥ १.९.४ ॥

同样在那个世界,世界如此。知此而如此冥想者,在此世的生命确实是至上的;同样在那个世界,世界如此;在世界中,世界如此。