Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 7.26

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 7.26.1

तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः सङ्कल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदँसर्वमिति ॥ ७.२६.१ ॥

对于如是见、如是思、如是知的人,从自我(ātman)生出气息(prāṇa),从自我生出希望,从自我生出记忆,从自我生出虚空,从自我生出火,从自我生出水,从自我生出显现与隐没,从自我生出食物,从自我生出力量,从自我生出智慧,从自我生出禅定,从自我生出心念,从自我生出决意,从自我生出意,从自我生出语言,从自我生出名,从自我生出咒语,从自我生出业行。自我确实就是这一切。

Chāndogya 7.26.2

तदेष श्लोको न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताँ सर्वँ ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति । स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः शतं च दश चैकश्च सहस्राणि च विँशतिराहारशुद्धौ सत्त्वशुद्धौ ध्रुवा स्मृतिः स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान्सनत्कुमारस्तँ स्कन्द इत्याचक्षते तँ स्कन्द इत्याचक्षते ॥ ७.२६.२ ॥

因此有这一偈:见者不见死亡,也不见疾病,甚至不见苦;见者见一切,并以一切方式获得一切。他成为一种形态,成为三种形态,成为五种、七种、九种形态;又被称为十一种形态;一百、十、一以及千,还有二十。饮食清净,悉多清净,记忆便坚定。获得记忆,便从一切结中得到完全解脱。对于诸垢已被磨除的人,尊贵的萨那特库马拉显示黑暗的彼岸;人们称他为斯坎达,人们称他为斯坎达。