Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 1.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.15.1

सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः ।
इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥ १.१५.१ ॥

愿河流汇聚而流,愿风汇聚,愿飞鸟汇聚。愿古昔的天神接受我的这场祭祀。我以汇流之供物献上祭品。

1.15.2

इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः ।
इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥ १.१५.२ ॥

请听我的呼唤来到此地,汇聚之神啊,增益我的这首赞歌。愿所有牲畜来到这里,愿这里的财富永驻于此。

1.15.3

ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः ।
तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥ १.१५.३ ॥

那些恒常不竭、汇流而下的河川源泉,我们借着这一切汇流,让我的财富汇聚流动。

1.15.4

ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च ।
तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥ १.१५.४ ॥

那些汇聚流淌的酥油、乳汁与水,我们借着这一切汇流,让我的财富汇聚流动。