阿闼婆吠陀 · 颂诗(Sūkta) 11.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
11.8.1
अग्निं ब्रूमो वनस्पतीन् ओषधीरुत वीरुधः ।
इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥ ११.८.१ ॥
我们称颂火神、树木、草药与藤蔓。愿因陀罗、梵天主、太阳使我们脱离罪恶。
11.8.2
ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् ।
अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.२ ॥
我们称颂国王伐楼那、密多罗、毗湿奴、婆伽、阿姆莎与毗婆娑鸣。愿他们使我们脱离罪恶。
11.8.3
ब्रूमो देवं सवितारं धातारमुत पूषणम् ।
त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.३ ॥
我们称颂神祇萨维特里、达陀、普善,以及至上的陀湿陀。愿他们使我们脱离罪恶。
11.8.4
गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।
अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.४ ॥
我们称颂乾闼婆与阿普萨拉丝、双马童、梵主,以及名为阿利耶曼的神。愿他们使我们脱离罪恶。
11.8.5
अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा ।
विश्वान् आदित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.५ ॥
我们称颂此日与此夜、日与月二者,以及一切阿提提耶。愿他们使我们脱离罪恶。
11.8.6
वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः ।
आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.६ ॥
我们称颂风、帕尔加尼亚、中空、诸方以及一切方位。愿他们使我们脱离罪恶。
11.8.7
मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः ।
सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥ ११.८.७ ॥
愿昼、夜与晨曦使我摆脱诅咒;愿被称为月亮的神苏摩使我解脱。
11.8.8
पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः ।
शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.८ ॥
地上与天上的家畜、野兽与鹿,我们提及鸟类与有翼之物;愿它们使我们脱离苦难。
11.8.9
भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः ।
इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥ ११.८.९ ॥
我们称呼婆伐与舍婆,称呼楼陀罗与畜主;愿我们所知的他们的箭,永远对我们吉祥。
11.8.10
दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।
समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥ ११.८.१० ॥
我们称呼天空、星辰、大地、夜叉与山岳;进入其中的海洋与河流——愿它们使我们脱离苦难。
11.8.11
सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम् ।
पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.११ ॥
我们称呼七仙人、神圣之水、生主;称呼阎摩族中最优秀的祖先——愿他们使我们脱离苦难。
11.8.12
ये देवा दिविषदो अन्तरिक्षसदश्च ये ।
पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥ ११.८.१२ ॥
居于天上的诸神、居于虚空的诸神,以及立足于大地的有力者——愿他们使我们脱离苦难。
11.8.13
आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः ।
अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.१३ ॥
天上的阿底提耶、楼陀罗、婆蘇、诸天神、阿闼婆、盎吉罗、智者们——愿他们使我们脱离罪过。
11.8.14
यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।
यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.१४ ॥
我们讲说祭祀、祭主、颂歌、娑摩歌、药草、夜柔、以及荷特里的呼请——愿它们使我们脱离罪过。
11.8.15
पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः ।
दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.१५ ॥
我们讲说以苏摩为最胜的五种草药王国——吉祥草、大麻、大麦、萨诃斯——愿它们使我们脱离罪过。
11.8.16
अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।
मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.१६ ॥
我们讲说悭吝者、罗刹、蛇、福人、祖灵与百种死亡——愿它们使我们脱离罪过。
11.8.17
ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् ।
समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥ ११.८.१७ ॥
我们讲说季节、季节之主、季节神、两至、年与月——愿它们使我们脱离罪过。
11.8.18
एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत ।
पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥ ११.८.१८ ॥
诸神啊,请从南方、西方、东方起来而来;愿从前方与北方聚集而来的一切威力诸神使我们脱离罪过。
11.8.19
विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।
विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥ ११.८.१९ ॥
我们向所有守诚约、增益天则(ṛta)的诸神如此说道:愿他们与其所有妻室一同使我们脱离灾厄。
11.8.20
सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।
सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥ ११.८.२० ॥
我们向所有守诚约、增益天则(ṛta)的诸神如此说道:愿他们与其所有妻室一同使我们脱离灾厄。
11.8.21
भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी ।
भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः ॥ ११.८.२१ ॥
我们向众生、众生之主,以及统御众生者如此说道:愿一切众生聚集在一起,使我们脱离灾厄。
11.8.22
या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः ।
संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥ ११.८.२२ ॥
那五位女神方位、十二位季节之神,以及年之獠牙:愿它们永远对我们吉祥。
11.8.23
यन् मातली रथक्रीतममृतं वेद भेषजम् ।
तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥ ११.८.२३ ॥
摩多利所知、以战车换得的不死良药,因陀罗使之进入水中;故,诸水啊,请赐予我们那良药。