阿闼婆吠陀 · 颂诗(Sūkta) 19.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.52.1
कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत् ।
स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥ १९.५२.१ ॥
起初生出迦摩,他是心的第一粒种子。迦摩啊,你与伟大的欲望同居一胎,请赐予祭祀者财富的滋养。
19.52.2
त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते ।
त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥ १९.५२.२ ॥
你,迦摩啊,以力量而立,遍在且光辉;朋友啊,对求友者,你即是友。你在战斗中猛烈而得胜;请赐予祭祀者力量与活力。
19.52.3
दूराच्चकमानाय प्रतिपाणायाक्षये ।
आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥ १९.५२.३ ॥
从远处,为那渴望者,为在不灭中回饮者;为此,四方听闻,并以欲望生出天界。
19.52.4
कामेन मा काम आगन् हृदयाद्धृदयं परि ।
यदमीषामदो मनस्तदैतूप मामिह ॥ १९.५२.४ ॥
以欲望,欲望来到我这里,从心到心;愿他们那颗心在此来到我身边。
19.52.5
यत्काम कामयमाना इदं कृण्मसि ते हविः ।
तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥ १९.५२.५ ॥
迦摩啊,我们怀着渴望为你献上这份祭品;愿它使我们的一切昌盛;然后请享用这份祭品。娑诃。