Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.54

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.54.1

कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।
कालेनोदेति सूर्यः काले नि विशते पुनः ॥ १९.५४.१ ॥

由时间生出众水;由时间生出梵、苦行与方位。借时间太阳升起;在时间中它再次落下。

19.54.2

कालेन वातः पवते कालेन पृथिवी मही ।
द्यौर्मही काल आहिता ॥ १९.५४.२ ॥

借时间,风吹拂;借时间,大地广大。广大的天空安立于时间之中。

19.54.3

कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।
कालादृचः समभवन् यजुः कालादजायत ॥ १९.५४.३ ॥

时间本身如生子一般,先前生出了过去与未来。由时间生出梨俱,由时间生出夜柔。

19.54.4

कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।
काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥ १९.५४.४ ॥

时间推动了祭祀,给诸神以不坏的份额。时间中有乾闼婆与阿普莎罗;时间中诸世界得以安立。

19.54.5

कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।
इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।
सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥ १९.५४.५ ॥

此安吉罗斯神与阿沙婆坐于时间之中。以梵征服一切世界——此世界、至上世界、功德之世界与神圣的支柱——那时间便被称为至上之神。