阿闼婆吠陀 · 颂诗(Sūkta) 2.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.31.1
इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी ।
तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥ २.३१.१ ॥
因陀罗的巨石,能碾碎一切虫;我用它把虫一起研碎,如同用石头在臼中捣碎。
2.31.2
दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।
अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥ २.३१.२ ॥
可见的与不可见的,不可毁灭的与不可毁灭的库卢卢;阿尔甘杜,我们用咒语压碎所有的查隆虫。
2.31.3
अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् ।
शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुच्छिषातै ॥ २.३१.३ ॥
我以巨击打阿尔甘杜虫;被压碎与未被压碎的都失去了汁液。剩下的与未剩下的我以言语压服,使虫中无一留存。
2.31.4
अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् ।
अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥ २.३१.४ ॥
肠虫、头虫和肋虫;阿婆斯迦虫与毗陀婆罗虫,我们用咒语压碎。
2.31.5
ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः ।
ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥ २.३१.५ ॥
在山中、林中、草药中、牲畜中、水中的虫,以及进入我们身体的虫——它们全部,虫的种类本身,我都击杀。