Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 2.32

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.32.1

उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।
ये अन्तः क्रिमयो गवि ॥ २.३२.१ ॥

愿升起的太阳击杀虫子,落下时以其光线击杀;那些在牛体内的虫子。

2.32.2

विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् ।
शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥ २.३२.२ ॥

那多形、四目、斑点而白的虫子——我折断它的脊背,也斩断它的头。

2.32.3

अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत् ।
अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥ २.३२.३ ॥

如阿特里,哦虫们,我击打你们;如迦那瓦与遮摩达格尼。以阿伽斯提亚的梵咒,我碾碎这些虫子。

2.32.4

हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।
हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥ २.३२.४ ॥

虫之王已被杀,其统帅也已被杀。虫之母已被杀;兄弟被杀,姊妹被杀。

2.32.5

हतासो अस्य वेशसो हतासः परिवेशसः ।
अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥ २.३२.५ ॥

它们的后代被杀,四周的后代也被杀;那些如小孩般细小的虫子,全都被杀了。

2.32.6

प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि ।
भिनद्मि ते कुषुम्भं यस्ते विषधानः ॥ २.३२.६ ॥

你用来刺穿的角,我折断它;承载你毒液的囊,我将它刺破。