Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.10.1

वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि ।
स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥ ४.१०.१ ॥

生于风、虚空、闪电与光明之中;愿这生于金的贝饰,即克里沙那,保护我们免于灾厄。

4.10.2

यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे ।
शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे ॥ ४.१०.२ ॥

在光耀者之前从海洋中诞生者;以贝号击杀罗刹与食人者,我们将他们击退。

4.10.3

शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः ।
शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥ ४.१०.३ ॥

以贝号驱除疾病与贫困,以贝号驱除萨达瓦热病;万能良药的贝饰,即克里沙那,保护我们免于灾厄。

4.10.4

दिवि जातः समुद्रजः सिन्धुतस्पर्याभृतः ।
स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥ ४.१०.४ ॥

生于天上,生于海洋,取自河流;愿这生于金的贝饰,延年益寿之宝,保护我们。

4.10.5

समुद्राज्जातो मणिर्वृत्राज्जातो दिवाकरः ।
सो अस्मान्त्सर्वतः पातु हेत्या देवासुरेभ्यः ॥ ४.१०.५ ॥

生于海洋的宝珠,生于弗栗多的太阳;愿他从四面保护我们,免受天神与阿修罗之武器的伤害。

4.10.6

हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे ।
रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत् ॥ ४.१०.६ ॥

你是众金之中唯一者;你生于苏摩。在战车上你显耀,在箭囊中你闪耀;愿你延长我们的寿命。

4.10.7

देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः ।
तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु ॥ ४.१०.७ ॥

诸神的骨头变成了 kṛśana;它有了生命,在水中游动。我为你系上它,以求长寿、精力、力量、长久的年岁与百年秋。愿 kārśana 保护你。