阿闼婆吠陀 · 颂诗(Sūkta) 4.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.5.1
सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् ।
तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥ ४.५.१ ॥
从海洋升起的千角公牛——以那股强力,我们使众人入睡。
4.5.2
न भूमिं वातो अति वाति नाति पश्यति कश्चन ।
स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥ ४.५.२ ॥
风不越过大地吹动,也无人能望见其外。使所有女子与狗都入睡吧,你这作为因陀罗之友而行走的。
4.5.3
प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः ।
स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥ ४.५.३ ॥
睡在门槛上的女子,睡在床榻上的女子,乘轿而被抬运的女子,带着吉祥香气的女子——我们使她们全都入睡。
4.5.4
एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् ।
अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे ॥ ४.५.४ ॥
颤抖之中,我抓住了眼睛;抓住了生气;抓住了所有肢体——在一切夜晚,在极暗之夜。
4.5.5
य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति ।
तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥ ४.५.५ ॥
坐着的人,行走的人,站立观望的人——他们的眼睛我们闭上,如同此殿堂紧闭一样。
4.5.6
स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।
स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥ ४.५.६ ॥
愿母亲入睡;愿父亲入睡;愿狗入睡;愿家主入睡。愿她的亲族入睡;愿她身边的这些众人全都入睡。
4.5.7
स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् ।
ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥ ४.५.७ ॥
哦,睡眠啊,凭借制造梦境之法,让一切人、所有的人入睡。让他人在太阳之前入睡,黎明时让他们醒来;愿我如因陀罗一般无害、无损。