阿闼婆吠陀 · 颂诗(Sūkta) 6.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.40.1
अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु ।
अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥ ६.४०.१ ॥
愿天地在此对我们无所畏惧。愿苏摩与萨维特里使我们无畏。愿广阔的虚空对我们无所畏惧;愿七仙人的供物使我们无所畏惧。
6.40.2
अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु ।
अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥ ६.४०.२ ॥
愿四方为此村庄带来力量与善好的福祉。愿萨维特里为我们赐予吉祥。愿因陀罗使我们无敌无畏;愿君王的愤怒转向别处。
6.40.3
अनमित्रं नो अधरादनमित्रं न उत्तरात् ।
इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥ ६.४०.३ ॥
愿从下方对我们没有敌人,愿从上方对我们没有敌人。因陀罗啊,请从后方使我们无敌;也从前方使我们无敌。