Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 8.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

8.10.1

विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥ ८.१०.१ ॥

起初,此世界即是毗罗吒(Virāṭ)。当她诞生时,万物恐惧,心想:“她将成为这一切。”

8.10.2

सोदक्रामत्सा गार्हपत्ये न्यक्रामत् ।
गृहमेधी गृहपतिर्भवति य एवं वेद ॥ ८.१०.२ ॥

她向上离去,又降入家主之火(gārhapatya)。知此者,成为家祭者与家主。

8.10.3

सोदक्रामत्साहवनीये न्यक्रामत् ।
यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥ ८.१०.३ ॥

她向上离去,又降入献祭之火(āhavanīya)。诸神应他的神召而来;知此者,便为诸神所爱。

8.10.4

सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत् ।
यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥ ८.१०.४ ॥

她向上离去,又降入南火(dakṣiṇāgni)。知此者,成为堪受祭祀、堪受布施并适于居家的人。

8.10.5

सोदक्रामत्सा सभायां न्यक्रामत् ।
यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥ ८.१०.५ ॥

她向上离去,又降入集会(sabhā)。人们来到他的集会;知此者,成为集会之员。

8.10.6

सोदक्रामत्सा समितौ न्यक्रामत् ।
यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥ ८.१०.६ ॥

她向上离去,又降入集会(samiti)。人们来到他的集会;知此者,适于集会。

8.10.7

सोदक्रामत्सामन्त्रणे न्यक्रामत् ।
यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥ ८.१०.७ ॥

她向上而去,在召唤中向下而行。知道这样的人,人们便前往他的召唤;他也成为值得被召唤的人。