摩诃婆罗多 · 章 12.207
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.207.1
के पूर्वमासन्पतयः प्रजानां भरतर्षभ ।
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्थिताः ॥ १२.२०७.१ ॥
婆罗多族中最优秀者啊,往昔的众生之主是谁?各自立于方位之中的大福德仙人又是谁?
12.207.2
श्रूयतां भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ।
प्रजानां पतयो ये च दिक्षु ये चर्षयः स्मृताः ॥ १२.२०७.२ ॥
婆罗多族中最优秀者,请听你向我所问的:众生之主,以及被记诵于各方的仙人。
12.207.3
एकः स्वयंभूर्भगवानाद्यो ब्रह्मा सनातनः ।
ब्रह्मणः सप्त वै पुत्रा महात्मानः स्वयंभुवः ॥ १२.२०७.३ ॥
唯一的自生、世尊、初始、永恒的梵天。梵天有七位大智慧的儿子,皆由自生者所生。
12.207.4
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्च महाभागः सदृशो वै स्वयंभुवा ॥ १२.२०७.४ ॥
摩利芝、阿特里、安吉罗、普拉斯蒂亚、普拉诃、克拉图,以及大福德的婆私湿多——他们与自生者相似。
12.207.5
सप्त ब्रह्मण इत्येते पुराणे निश्चयं गताः ।
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥ १२.२०७.५ ॥
梵天的这七位在往世书中已被确定。此后,我将宣说所有的众生之主。
12.207.6
अत्रिवंशतमुत्पन्नो ब्रह्मयोनिः सनातनः ।
प्राचनवर्हिर्भगवांस्तस्मात्प्राचेतसो दश ॥ १२.२०७.६ ॥
阿特里的家族中生出了一百位;梵天之胎所生的永恒世尊普拉奇纳巴尔希;由他又生出十位普拉奇提萨斯。
12.207.7
दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः ।
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते ॥ १२.२०७.७ ॥
十子之中有一位名为达刹(Dakṣa)的众生之主。世间称他有两个名字:达刹与迦(Ka)。
12.207.8
मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी स्मृते ।
अरिष्टनेमिरित्येके कश्यपेत्यपरे विदुः ॥ १२.२०७.८ ॥
迦叶波(Kaśyapa)是摩利支(Marīci)之子。人们记得他的两个名字:有人称他为阿利什塔涅弥(Ariṣṭanemi),另一些人称他为迦叶波。
12.207.9
अत्रेश्चैवौरसः श्रीमान्राजा सोमश्च वीर्यवान् ।
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥ १२.२०७.९ ॥
光荣的国王月神(Soma)是阿特利(Atri)亲生的有力之子,他在神圣的诸时代中被崇拜了千年。
12.207.10
अर्यमा चैव भगवान्ये चास्य तनया विभो ।
एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥ १२.२०७.१० ॥
吉祥的阿利耶曼(Aryaman)以及他的诸子,啊,主公——这些被说为使诸世界显现的区域。
12.207.11
शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत ।
एकैकस्यां सहस्रं तु तनयानामभूत्तदा ॥ १२.२०७.११ ॥
舍舍宾度有一万位妻子,啊,阿周陀(Acyuta),每位妻子都生下了一千个儿子。
12.207.12
एवं शतसहस्राणि दश तस्य महात्मनः ।
पुत्राणां च न ते संचिदिच्छन्त्यन्यं प्रजापतिम् ॥ १२.२०७.१२ ॥
如此,这位大德之人有一百万个儿子,他们不愿认识另一位众生之主。
12.207.13
प्रजामाचक्षते विप्राः पुराणाः शाशबिन्दवीम् ।
स वृष्णिवंशप्रभवो महावंशः प्रजापतेः ॥ १२.२०७.१३ ॥
古代博学的婆罗门讲述了沙舍槃度的世系:他出自毗瑞尼族,是生主的大族。
12.207.14
एते प्रजानां पतयः समुद्दिष्टा यशस्विनः ॥ १२.२०७.१४ ॥
这些名声显赫者被列为众生之主。
12.207.15
शशबिन्दुस्तु राजर्षिर्महायोगी महामनाः ।
अध्यात्मवित्सहस्राणां भार्याणां दशमध्यगः ॥ १२.२०७.१५ ॥
王仙沙舍槃度是大瑜伽行者,心胸广大,通晓内在自我,在他的千名妻子中曾走向第十位。
12.207.16
स योगी योगमापन्नस्ततः सायुज्यतां गतः ।
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥ १२.२०७.१६ ॥
那位瑜伽行者得到瑜伽后,便达到合一。接下来我将讲述三界之主的诸天神。
12.207.17
भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा ।
सविता चैव घाता च विवस्वांश्च महाबलः ॥ १२.२०७.१७ ॥
薄伽、阿曼莎、阿利耶曼、密多罗,又有婆楼那,以及萨维德里、达陀里,还有大力的毗婆娑特。
12.207.18
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ।
इत्येते द्वादशादित्याः कश्यपस्यात्मसंभवाः ॥ १२.२०७.१८ ॥
特瓦什特里、普善,同样还有因陀罗,而第十二位称为毗湿奴。这十二位阿底提耶便是从迦叶波自身所生。
12.207.19
नासत्यश्चैव दस्रश्च स्मृतो द्वावश्विनावपि ।
मार्तण्डस्यात्मजावेतावात्मस्य प्रजापतेः ॥ १२.२०७.१९ ॥
那些提亚与达萨罗,这两位也被称为双马童(阿施文);他们是摩陀那(太阳)之子,生于生主的自身。
12.207.20
त्वष्टुश्चैवात्मजः श्रीमान्विश्वरूपो महायशाः ॥ १२.२०७.२० ॥
还有特瓦什塔之子,光荣的、大名的毗首罗波。
12.207.21
अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ १२.२०७.२१ ॥
阿耶伊迦跋、阿希尔布德尼耶、毗卢波刹、雷瓦塔、诃罗、婆呼如波、三目、苏雷什瓦罗(亦然)。
12.207.22
सावित्रश्च जयन्तश्च पिनाकी चापराजितः ।
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥ १२.२०७.२२ ॥
娑维陀罗、遮耶安多、皮那基、阿波罗耆多(亦然)。这十一位被称为楼陀罗,乃三界之主。
12.207.23
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ।
एत एवविधा देवा मनोरेव प्रजापतेः।
ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः ॥ १२.२०७.२३ ॥
往昔,大福的八位婆苏已被宣说。这样的诸天属于摩奴与生主。他们古时也称为苏罗;祖灵被记为两类。
12.207.24
शीलयौवनयोस्त्वन्यस्तथाऽन्ये सिद्धसाध्ययोः ।
ऋभवो मरुतश्चैव देवानां चोदितो गणः ॥ १२.२०७.२४ ॥
在戒与青年之中有另一类,在成就者与可成者之中亦有另一类。利补与摩录多也被宣说为诸天的一个群体。
12.207.25
एवमेते समाम्नाता विश्वेदेवास्तथाऽश्विनौ ।
आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा ॥ १२.२०७.२५ ॥
如是诵述了诸毗湿婆天与双阿输二神。阿提提耶为刹帝利;其毗舍及摩录多亦复如是。
12.207.26
अश्विनौ तु स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ ।
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः।
इत्येतत्सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम् ॥ १२.२०७.२६ ॥
双阿输二神被记为首陀罗,修持猛烈苦行;安吉罗娑被记为神,亦被记为婆罗门,此已确定。如是宣说了诸神的四种种姓。
12.207.27
एतान्वै प्रातरुत्थाय देवान्यस्तु प्रकीर्तयेत् ।
स्वजादन्यकृताच्चैव सर्वपापात्प्रमुच्यते ॥ १२.२०७.२७ ॥
若于黎明起身,颂赞这些诸神,则可解脱一切罪业——无论是出生所带来的,还是他人所造的。
12.207.28
यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू ।
औशिजश्चैव कक्षीवान्बलश्चाङ्गिरसः स्मृतः ॥ १२.२०७.२८ ॥
耶婆克利多、莱跋耶、阿尔婆婆苏与跋罗婆苏、乌什遮之子、迦叉瓦特,以及安吉罗娑之巴拉,被记诵。
12.207.29
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा ।
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ॥ १२.२०७.२९ ॥
麦达提提之子仙人迦婆,及巴尔希沙德,亦复如是——亲爱的孩子,他们支撑三界;东方的七仙人亦然。
12.207.30
उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् ।
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ॥ १२.२०७.३० ॥
乌恩牟遮与毗牟遮,有力的斯瓦斯蒂亚特利耶,普拉牟遮与伊德玛婆诃,以及世尊坚定誓愿者。
12.207.31
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान् ।
एते ब्रह्मर्षयो नित्यमास्थिता दक्षिणां दिशम् ॥ १२.२०७.३१ ॥
密特拉与伐楼那之子,以及威力强大的阿伽斯提耶——这些梵仙常住南方。
12.207.32
उषङ्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् ।
एकतश्च द्वितश्चैव त्रितश्चैवं महर्षयः ॥ १२.२०७.३२ ॥
乌until、迦婆沙、达乌摩耶、威力强大的波利维亚达,以及一多、二多、三多——这些大仙。
12.207.33
अत्रेः पुत्रश्च दुर्वासास्तथा सारस्वतः प्रभुः ।
एते चैव महात्मानः पश्चिमामाश्रिता दिशम् ॥ १२.२०७.३३ ॥
阿特里之子杜尔婆娑,以及主宰者娑罗私婆多——这些大德常住西方。
12.207.34
अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानुषिः ।
गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः ॥ १२.२०७.३४ ॥
阿特里与婆私吒、大仙迦叶波、乔答摩、跋阇、憍尸迦与毗首未多罗。
12.207.35
तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम् ॥ १२.२०७.३५ ॥
同样,大德Ṛcīka之子婆摩陀耆尼——这七位常住北方。
12.207.36
एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः ।
साक्षिभूता महात्मानो भुवनानां प्रभावनाः ॥ १२.२०७.३६ ॥
这些炽烈光辉的大德已在每个方位被一一列举——他们是诸世界的见证者,也是其护持者。
12.207.37
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशम् ।
एतेषां कीर्तनं कृत्वा सर्वपापात्प्रमुच्यते ॥ १२.२०७.३७ ॥
如此,这些大德各自守立于其方位;诵念其名,便可脱离一切罪业。
12.207.38
यस्यांयस्यां दिशि ह्येते तां दिशं शरणं गतः ।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च तथा भवेत् ॥ १२.२०७.३८ ॥
这些大德所在的任何方位,凡以该方位为皈依而前往者,便脱离一切罪业,并得吉祥安稳。