Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.99

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.99.1

श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः ।
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥ १३.९९.१ ॥

我已从您处听闻施食的规则。现在请告诉我依据星宿结合的布施之法。

13.99.2

अत्राप्युदाहरन्तीममितिहासं पुरानम् ।
देवक्याश्चैव संवादं समर्षेर्नारदस्य च ॥ १३.९९.२ ॥

关于此事,人们也讲述这段古老的故事:提婆基与大仙那罗陀的对话。

13.99.3

द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम् ।
पप्रच्छेदं वचः प्रश्नं देवकी धर्मदर्शिनी ॥ १३.९९.३ ॥

来到德瓦拉卡的神相仙人那罗陀,见法的提婆基问了这番话与这个问题。

13.99.4

तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्ततः ।
आचष्ट विधइवत्सर्वं तच्छृणुष्व विशाम्पते ॥ १३.९९.४ ॥

她问时,天仙那罗陀便依规则将一切讲明。众民之主啊,请听。

13.99.5

कृत्तिकासु महाभागे पायसेन ससर्पिषा ।
सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् ॥ १३.९९.५ ॥

大福者啊,在昴宿(Kṛttikā)之日,以酥和乳糜供养善良的婆罗门者,可得至上的诸界。

13.99.6

रोहिण्यां प्रसृतैर्मार्गैर्मांसैरन्नेन सर्पिषा ।
पयोऽन्नपानं दातव्यमनृणार्थं द्विजातये ॥ १३.९९.६ ॥

在罗希尼宿,应以多种食物、肉、谷物与酥,连同乳、饮食,施予再生者,以免除债务。

13.99.7

दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ।
गच्छन्ति मानुपाल्लोकात्स्वर्गलोकमनुत्तमम् ॥ १३.९९.७ ॥

在以月神苏摩为主神的星宿日布施带牛犊的乳牛,人从人间前往至上的天界。

13.99.8

आर्द्रायां कृसरं दत्त्वा तिलभिश्रमुपोषितः ।
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥ १३.९९.८ ॥

在阿尔德拉星宿日布施掺有芝麻的粥饭并斋戒,人能越过艰难的险阻和如剃刀锋刃般的山峦。

13.99.9

पूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने ।
यशस्वी रूपसम्पन्नो बह्वन्नो जायते कुले ॥ १३.९९.९ ॥

在普纳瓦苏星宿日布施糕饼和其他食物,美丽的人,人会生于名声显赫、容貌俊美、粮食丰足的家族。

13.99.10

पुण्येण कनकं दत्त्वा कृतं वाऽकृतमेव च ।
अनालोकेषु लोकेषु सोमवत्स विराजते ॥ १३.९९.१० ॥

以功德布施黄金,无论已加工或未加工,他在无暗之界中如月般光耀。

13.99.11

आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति ।
स सर्पभयनिर्मुक्तः सम्भवानधितिष्ठति ॥ १३.९९.११ ॥

在阿什莱沙星宿日布施白银或公牛者,脱离蛇患之惧,得居上界。

13.99.12

मघासु तिलपूर्णानि वर्धमानानि मानवः ।
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ॥ १३.९९.१२ ॥

人在摩伽星宿日布施满盛芝麻的增益之器,今世得子孙与牛羊,死后亦得欢喜。

13.99.13

फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः ।
भक्ष्यान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ॥ १३.९९.१३ ॥

在菲尔古尼星宿之前的时候禁食,将掺有糖蜜的食物布施给婆罗门者,便得福运。

13.99.14

घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् ।
उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥ १३.९९.१४ ॥

在北方之地布施以酥油和牛奶依法煮成的六十日稻饭者,在天界受到尊崇。

13.99.15

यद्यत्प्रदीयते दानमुत्तराविषये नरैः ।
महाफलमनन्तं तद्भवतीति विनिश्चयः ॥ १३.९९.१५ ॥

凡人在北方之地所布施的任何施舍,都会成为巨大而无尽的福果,这是确定的。

13.99.16

हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः ।
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् ॥ १३.९९.१६ ॥

禁食后亲手布施一头象与一辆四马所驾之车者,便得到充满功德之愿的至上诸界。

13.99.17

चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च भारत ।
चरन्त्यप्सरसां लोके रमन्ते नन्दने तथा ॥ १३.९९.१७ ॥

婆罗多之子啊,在支多罗星宿下布施公牛与香料者,在阿布沙罗斯的世界中游行,并在难陀那园中欢乐。

13.99.18

स्वात्यामथ धनं दत्त्वा यदिष्टतममात्मनः ।
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ॥ १३.९९.१८ ॥

在斯瓦蒂星宿下布施自己最珍爱之财者,便得到吉祥诸界,并在此世获得大名。

13.99.19

विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् ।
सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम्। ॥ १३.९९.१९ ॥

于毗舍佉宿,布施一头役牛、一头乳牛及其乳桶、一辆带轭钉的车,并附谷物与衣物……

13.99.20

पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते ।
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥ १३.९९.२० ॥

他使祖先与诸神欢喜;死后获得无穷的福报,不陷于困厄,并往生天界。

13.99.21

दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति ।
नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः ॥ १३.९९.२१ ॥

依法施予婆罗门,他获得所愿的生计,不遭地狱等种种苦恼——此为定论。

13.99.22

अनुराधासु प्रावरं वरान्नं समुपोषितः ।
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥ १३.९९.२२ ॥

于安罗陀宿,布施上衣与上等食物,并且善守斋戒的人,在天界受尊敬达百劫之久。

13.99.23

कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ।
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां स गच्छति ॥ १३.९९.२३ ॥

于妙宿,人若以萝卜与黑菜布施婆罗门,便得所愿的富足,并往生所愿的去处。

13.99.24

मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः ।
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति। ॥ १३.९९.२४ ॥

于房宿,以专注之心将根茎与果实布施婆罗门,便能使祖先欢喜,并往生所愿的去处。

13.99.25

अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः ।
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ॥ १३.९९.२५ ॥

此时,在前阿沙荼宿中,持斋之后,应将盛有凝乳的器皿施予一位家风端正、通达吠陀的婆罗门。

13.99.26

प्रदाय जायते प्रेत्य कुले सुबहुगोधने ।
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् ॥ १३.९९.२६ ॥

施舍之后,身死则生于拥有众多牛群的家族;应以酥油、充足的蜂蜜和糖浆施予乌达曼托。

13.99.27

दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् ।
दुग्धं त्वभिजिते योगे दत्त्वा मधुघृतप्लुतम्।
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ॥ १३.९९.२७ ॥

在后阿沙荼宿施舍,可得一切所愿;在无胜宿合时,以蜜与酥油浸透的牛奶施予智者,恪守法度者便在天界受到尊崇。

13.99.28

श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव वा ।
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान् ॥ १३.९९.२८ ॥

在室宿施予毛毯,或以布包裹之物,便乘白色车辆前往无所阻隔的天界。

13.99.29

गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः ।
वस्त्रराशिधनं सद्यः प्रेत्य राज्यं प्रपद्यते ॥ १३.९९.२९ ॥

在危宿以专注之心施予牛拉之车,身死之后即刻获得以布帛堆积为财富的王国。

13.99.30

गन्धाञ्शतभिषग्योगे दत्त्वा सागरुचन्दनान् ।
प्राप्नोत्यप्सरसां सङ्घान्प्रेत्य गन्धांश्च शाश्वतान् ॥ १३.९९.३० ॥

在百星宿合时施予沉香与檀香等香料,身死之后便得众多天女与永恒的香气。

13.99.31

पूर्वप्रोष्ठपदायोगे राजमाषान्प्रदाय तु ।
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ॥ १३.९९.३१ ॥

在Pūrvaprauṣṭhapada星宿相合之时布施王豆(rājamāṣa)者,死后将获得快乐,拥有各种食物与果实。

13.99.32

औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति ।
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते ॥ १३.९९.३२ ॥

在Uttarā星宿相合之时布施羊肉(auraḥbhra,公羊)者,令祖先欢喜,死后获得无尽的福报。

13.99.33

कांस्योपदोहनां धेनु रेवत्यां यः प्रयच्छति ।
सा प्रेत्य कामानादाय दातारमुपतिष्ठति ॥ १३.९९.३३ ॥

在Revatī星宿时布施带铜制挤奶器的母牛者,死后该牛将带来所欲之物并侍奉施主。

13.99.34

रथमश्वसमायुक्तं दत्त्वाऽश्विन्यां नरोत्तमः ।
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले ॥ १३.९९.३४ ॥

在Aśvinī星宿时布施驾马之车者,此最上之人将生于富有象、马与车乘的家族,并且光彩焕发。

13.99.35

भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै ।
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ॥ १३.९९.३५ ॥

在Bharaṇī星宿时将芝麻牛(tiladhenu)布施给婆罗门者,死后将获得大量牛群与名声。

13.99.36

इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः ।
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ॥ १३.९९.३६ ॥

如此依星宿相合宣说了这一吉兆的说明;德瓦吉从那罗陀处听闻后,将此言告诉了她的儿媳们。