摩诃婆罗多 · 章 14.90
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.90.1
श्रपयित्वा पशूनन्यान्विधिवद्द्विजसत्तमाः ।
तं तुरङ्गं यथाशास्त्रमालभन्त द्विजातयः ॥ १४.९०.१ ॥
最优秀的再生者依规矩烹煮其他牲畜后,依照经典宰杀了那匹马。
14.90.2
ततः संज्ञप्य तुरगंक विधिवद्याजकर्षभाः ।
उपसंवेशयांचक्रुस्ततस्तां द्रुपदात्मजाम्।
कलाभिस्तिसृभी राजन्यथाविधि मनस्विनीम् ॥ १४.९०.२ ॥
随后,祭司中的翘楚依规矩杀死那匹马,又依仪轨让德鲁帕达之女在三份供物之中坐在它的身旁,大王,那位心志高远的女子。
14.90.3
उद्धृत्य तु वपां तस्य यथाशास्त्रं द्विजातयः ।
श्रपयामासुरव्यग्रा विधिवद्भरतर्षभ ॥ १४.९०.३ ॥
再生者依经典取出其脂肪,从容地依规矩烹煮,婆罗多中的雄牛啊。
14.90.4
तं वपाधूमगन्धं तु धर्मराजः सहानुजैः ।
उपाजिघ्रद्यथासास्त्रं सर्वपापापहं तदा ॥ १४.९०.४ ॥
那时,法王与诸弟依经典嗅闻了那脂烟的香气,它能除去一切罪业。
14.90.5
शिष्टान्यङ्गानि यान्यासंस्तस्याश्वस्य नराधिप ।
तान्यग्रौ जुहुवुर्धीराः समस्ताः षोडशर्त्विजः ॥ १४.९०.५ ॥
人主啊,那匹马其余的肢体,十六位祭司一同坚定地投入火中献祭。
14.90.6
संस्थाप्यैवं तस्य राज्ञस्तं यज्ञं शक्रतेजसः ।
व्यासः सशिष्यो भगवान्वर्धयामास तं नृपम् ॥ १४.९०.६ ॥
如此完成了这位光辉如因陀罗的国王的祭祀之后,世尊毗耶娑与其弟子一同使那位君王得以兴盛。
14.90.7
ततो युधिष्ठिरः प्रादात्सदस्येभ्यो यथाविधि ।
कोटीः सहस्रं निष्काणां व्यासाय तु वसुंधराम् ॥ १४.९०.७ ॥
于是坚战依仪轨赐予会众,并将千俱胝金币与大地奉给毗耶娑。
14.90.8
प्रतिगृह्य धरां राजन्व्यासः सत्यवतीसुतः ।
अब्रवीद्भरतश्रेष्ठं धर्मराजं युधिष्ठिरम् ॥ १४.९०.८ ॥
大王,萨提亚瓦蒂之子毗耶娑接受了大地,对婆罗多中最杰出的法王坚战说道。
14.90.9
वसुधा भवतस्त्वेषां संन्यस्ता राजसत्तम ।
निष्क्रयो दीयतां मह्यं ब्राह्मणा हि धनार्थिना ॥ १४.९०.९ ॥
王中之最,此地本是你的,已交付他们。请给我赎金,因为婆罗门渴求财富。
14.90.10
युधिष्ठिरस्तु तान्विप्रान्प्रत्युवाच महामनाः ।
भ्रातृभिः सहितो धीमान्मध्ये राज्ञां महात्मनाम् ॥ १४.९०.१० ॥
然而,心胸宽广的智者坚战与兄弟们一同,在诸大人物之中,回答了那些婆罗门。
14.90.11
अश्वमेधे महायज्ञे पृथिवी दक्षिणा स्मृता ।
अर्जुनेन जिता चेयमृत्विग्भ्यः प्रापिता मया ॥ १४.९०.११ ॥
在大马祭中,大地被视为祭礼布施。此地为阿周那所征服,我已使之交给祭司。
14.90.12
वनं प्रवेक्ष्ये विप्राग्र्या विभजध्वं महीमिमाम् ।
चतुर्धा पृथिवीं कृत्वा चातुर्होत्रप्रमाणतः ॥ १४.९०.१२ ॥
诸位最优秀的婆罗门,我将入林。请依四祭司仪轨的尺度,将此大地分为四份。
14.90.13
नाहमादातुमिच्छामि ब्रह्मस्वं द्विजसत्तमाः ।
इदं नित्यं मनो विप्रा भ्रातॄणां चैव मे सदा ॥ १४.९०.१३ ॥
二生者中最优秀的人啊,我不愿取婆罗门的财物。诸位婆罗门啊,这向来是我和我兄弟们的心意。
14.90.14
इत्युक्तवति तस्मिंस्तु भ्रातरो द्रौपदी च सा ।
एवमेतदिति प्राहुस्तदभूद्रोमहर्षणम् ॥ १४.९०.१४ ॥
他这样说完后,兄弟们和德罗波蒂也说:“确实如此。”这番话令人毛骨悚然。
14.90.15
ततोऽन्तरिक्षे वागासीत्साधुसाध्विति भारत ।
तथैव द्विजसङ्घानां शंसतां विबभौ स्वनः ॥ १४.९०.१५ ॥
于是,婆罗多啊,天空中传来声音:“善哉,善哉!”同样,赞颂的婆罗门众之声也响彻四方。
14.90.16
द्वैपायनस्तथा कृष्णः पुनरेव युधिष्ठिरम् ।
प्रोवाच मध्ये विप्राणामिदं सम्पूजयन्मुनिः ॥ १४.९०.१६ ॥
于是德瓦帕亚纳·克里希纳又在婆罗门众中对坚战说话,这位圣人一边尊敬他们一边说了这些。
14.90.17
दत्तैषा भवता मह्यं तां ते प्रतिददाम्यहम् ।
हिरण्यं दीयतामेभ्यो ब्राह्मणेभ्यो धराऽस्तु ते ॥ १४.९०.१७ ॥
这片大地是你交给我的;我把它还给你。让人把黄金给予这些婆罗门,大地仍归你所有。
14.90.18
ततोऽब्रवीद्वासुदेवो धर्मराजं युधिष्ठिरम् ।
यथाऽऽह भगवान्व्यासस्तथा त्वं कर्तुमर्हसि ॥ १४.९०.१८ ॥
于是婆薮提婆对法王坚战说:“正如薄伽梵广博仙人所说,你就应当这样去做。”
14.90.19
इत्युक्तः स कुरुश्रेष्ठः प्रीतात्मा भ्रातृभिः सह ।
कोटिं कोटिं गवां प्रादाद्दक्षिणां त्रिगुणीकृताम् ॥ १४.९०.१९ ॥
被如此告知后,库鲁之最以喜悦之心,与兄弟们一同布施了每人千万头牛,作为加倍的达叉那。
14.90.20
न करिष्यति तल्लोके कश्चिदन्यो नराधिपः ।
यत्कृतं कुरुराजेन मरुत्तस्यानुकुर्वता ॥ १४.९०.२० ॥
世上无他王能做到库鲁王效法摩录多所做之事。
14.90.21
प्रतिगृह्य तु तद्द्रव्यं कृष्णद्वैपायनो मुनिः ।
ऋत्विग्भ्यः प्रददौ विद्वांश्चतुर्धा व्यभजंश्च ते ॥ १४.९०.२१ ॥
智者黑岛仙人接受了那些财富,将其交给祭司,祭司们将其分为四份。
14.90.22
धरण्या निष्क्रयं दत्त्वा तद्धिरण्यं युधिष्ठिरः ।
दूतपापो जितस्वर्गो मुमुदे भ्रातृभिः सह ॥ १४.९०.२२ ॥
以那黄金作为大地的赎金,尤提斯提罗摆脱了赌博之罪,赢得天界,与兄弟们一同欢喜。
14.90.23
ऋत्विजस्तमपर्यन्तं सुवर्णनिचयं तथा ।
व्यभजन्त द्विजातिभ्यो यथोत्साहं यथासुखम् ॥ १४.९०.२३ ॥
祭司们依照各人的热忱与便利,将那无边的金堆分给了再生族。
14.90.24
यज्ञवाटे च यत्किञ्चिद्धिरण्यं सवि भूषणम् ।
तोरणानि च यूपांश्च घटान्पात्रीस्तथेष्टकाः।
युधिष्ठिराभ्यनुज्ञाताः सर्वं तद्व्यभजन्द्विजाः ॥ १४.९०.२४ ॥
祭场中所有的黄金,连同饰物、门楼、祭柱、瓶罐、器皿与砖块,在坚战允许下,婆罗门们全部分掉了。
14.90.25
अनन्तरं द्विजातिभ्यः क्षत्रिया जह्रिरे वसु ।
तथा विट्शूद्रसङ्घाश्च तथाऽन्ये म्लेच्छजातयः।
कालेन महता जह्रुस्तत्सुवर्णं ततस्ततः ॥ १४.९०.२५ ॥
此后,刹帝利从再生者手中取走财富;同样,吠舍与首陀罗的人群以及其他蛮夷部族,也在漫长岁月中一次次取走了那些黄金。
14.90.26
ततस्ते ब्राह्मणाः सर्वे मुदिता जग्मुरालयान् ।
तर्पिता वसुना तेन धर्मिराजेन धीमिता ॥ १४.९०.२६ ॥
于是那些婆罗门欢喜地回到各自的住所,都被正法之王以财富所满足,那些智者便这样离去了。
14.90.27
स्वमंशं भगवान्व्यासः कुन्त्यै पादाभिवादितः ।
प्रददौ तस्य महतो हिरण्यस्य महाद्युतिः ॥ १४.९०.२७ ॥
大光明的世尊毗耶娑,在俱哩提足下受礼之后,把自己在那大量黄金中的一份给了她。
14.90.28
श्वशुरात्प्रीतिदायं तं प्राप्य सा प्रीतमानसा ।
चकार पुण्यकं तेन सुमहत्सङ्घशः पृथा ॥ १४.९०.२८ ॥
普利塔从公公那里得到这份爱意的礼物,心中欢喜,便用这些财富多次做了巨大的功德之事。
14.90.29
गत्वा त्ववभृथं राजा विपाप्मा भ्रातृभिः सह ।
सभाज्यमानः शुशुभे महेन्द्रस्त्रिदशैरिव ॥ १४.९०.२९ ॥
国王在祭祀的沐浴礼仪中净身之后,与众兄弟一同受到敬重,光辉如同受诸天礼敬的大因陀罗一般。
14.90.30
पाण्डवाश्च महीपालैः समेतैरभिसंवृताः ।
अशोभन्त महाराज ग्रहस्तारागणैरिव ॥ १४.९०.३० ॥
般度之子们被聚集的诸王围绕,大王啊,他们闪耀如同诸行星在众星之中闪烁。
14.90.31
राजभ्योपि ततः प्रादाद्रत्नानि विविधानि च ।
गजानश्वानलङ्कारान्त्रियो वासांसि काञ्चनम् ॥ १४.९०.३१ ॥
随后,他也将各种宝石、象、马、饰物、女子、衣服和黄金赠予诸王。
14.90.32
तद्धनौघमपर्यन्तं पार्थः पार्थिवमण्डले ।
विसृजञ्शुशुभे राजन्यथा वैश्रवणस्तथा ॥ १४.९०.३२ ॥
大王啊,普利塔之子在诸王之中分发那无边的财富洪流,光彩照人,正如毗沙罗婆那(俱毗罗)一般。
14.90.33
आनीय च तथा वीरं राजानं बभ्रुवाहनम् ।
प्रदाय विपुलं वित्तं गृहात्प्रास्थापयनत्तदा ॥ १४.९०.३३ ॥
又迎来英勇的国王巴布鲁婆诃那,赠予丰厚的财富,然后便送他离开了宫中。
14.90.34
दुःशलायाश्च तं पौत्रं बालकं भरतर्षभ ।
स्वराज्येऽथ पितुर्धामान्स्वसुः प्रीत्या न्वयेशयत् ॥ १४.९०.३४ ॥
婆罗多族的俊杰啊,他又因对妹妹的爱,把杜沙拉之子的那个小孙子安置在自己父亲的领地上。
14.90.35
नृपतींश्चैव तान्सर्वान्सुविभक्तान्सुपूजितान् ।
प्रस्थापयामास वशी कुरुराजो युधिष्ठिरः ॥ १४.९०.३५ ॥
自制的俱卢王坚战,把那些诸王都妥善分赠、妥善礼敬后送走了。
14.90.36
गोविन्दं च महात्मानं बलदेवं महाबलम् ।
तथाऽन्यान्वृष्णिवीरांश्च प्रद्युम्नाद्यान्सहस्रशः ॥ १४.९०.३६ ॥
还有高贵的哥文达、大力的大力罗摩,以及其余的毗瑟尼勇士——以普罗旦摩那为首的成千上万人,他也送走了。
14.90.37
पूजयित्वा महाराज यथाविधि महाद्युतिः ।
भ्रातृभिः सहितो राजा प्रास्थापरयदरिंदमः ॥ १४.९०.३७ ॥
大王啊,大光明的、降伏敌人的国王,依法礼敬之后,与诸兄弟一同送他们离去。
14.90.38
एवं बभूव यज्ञः स धर्मिराजस्य धीमतः ।
बह्वन्नधनरत्नौघः सुरामैरेयसागरः ॥ १४.९०.३८ ॥
智慧的法王的祭祀就这样举行了,食物、财富和珠宝如潮涌来,酒与美酒汇成海洋。
14.90.39
सर्पिःपङ्का ह्रदा यत्र बभूवुश्चान्नपर्वताः ।
रसालकर्दमा नद्यो बभूवुर्भरतर्षभ ॥ १४.९०.३९ ॥
那里有酥油泥潭的池塘,有如山的食物,芒果汁泥流成的河流,啊,婆罗多之牛中之王。
14.90.40
भक्ष्यखाण्डवरागाणां क्रियतां भुज्यतां तथा ।
पशूनां वध्यतां चैव नान्तं ददृशिरे जनाः ॥ १४.९०.४० ॥
“让人准备并享用食物、糖果和香料饮料,也让牲畜被宰杀”,人们这样说着;看不到尽头。
14.90.41
मत्तप्रमत्तमुदितं सुप्रीतयुवतीजनम् ।
मृदङ्गशङ्खनादैस्च मनोरममभूत्तदा। ॥ १४.९०.४१ ॥
那时,这地方充满醉醺醺的人和欢喜的少女,鼓声与螺号声使它变得十分迷人。
14.90.42
दीयतां भुज्यतां चापि तत्र शब्दो महानभूत् ।
दीयतां दीयतां चेति दिवारात्रमवारितम् ॥ १४.९०.४२ ॥
“给予,吃吧!”那里响起巨大的喧声;“给予,给予!”昼夜不停地持续着。
14.90.43
तं महोत्सवसंकाशं हृष्टपुष्टजनाकुलम् ।
कथयन्ति स्म पुरुषा नानादेशनिवासिनः ॥ १४.९०.४३ ॥
居住在各国的人们常常讲述那场祭祀,它宛如一场盛大的节日,充满了欢愉而富足的人群。
14.90.44
वर्षित्वा धनधाराभिः कामै रत्नै रसैस्तथा ।
विपाप्मा भरतश्रेष्ठः कृतार्थः प्राविशत्पुरम् ॥ १४.९०.४४ ॥
施予了滚滚财富、所欲之物、珠宝与美味之后,无罪的婆罗多之杰功德圆满,进入了城中。